००३

सर्वाष् टीकाः ...{Loading}...

०१ जङ्गिडो ऽसि जङ्गिडो

विश्वास-प्रस्तुतिः ...{Loading}...

जङ्गिडो ऽसि जङ्गिडो
रक्षितासि जङ्गिडः ।
द्विपाच् चतुष्पाद् अस्माकं
सर्वं रक्षतु जङ्गिडः ॥

०२ या गृत्स्यस् त्रिपञ्चाशीः

विश्वास-प्रस्तुतिः ...{Loading}...

या गृत्स्यस् त्रिपञ्चाशीः
शतं कृत्याकृतश् च ये ।
सर्वान् विनक्ततेजसो
ऽरसान् जङ्गिडस् करत् ॥

०३ अरसं कृत्रिमं नाडम्

विश्वास-प्रस्तुतिः ...{Loading}...

अरसं कृत्रिमं नाडम्
अरसाः सप्त विस्रसः ।
अपेतो जङ्गिडामतिम्
इषुम् अस्तेव साधय ॥

०४ कृत्यादूषण एवायम् अथो

विश्वास-प्रस्तुतिः ...{Loading}...

कृत्यादूषण एवायम्
अथो अरातिदूषणः ।
अथो सहस्वां जङ्गिडः
प्र ण आयूंषि तारिषत् ॥

०५ स जङ्गिडस्य महिमा

विश्वास-प्रस्तुतिः ...{Loading}...

स जङ्गिडस्य महिमा
परि णः पातु विश्वतः ।
विष्कन्धं येन सासाह
संस्कन्धम् ओज ओजसा ॥

०६ तृष्ट्वा देवा अजनयन्

विश्वास-प्रस्तुतिः ...{Loading}...

तृष्ट्वा देवा अजनयन्
निष्ठितं भूम्याम् अधि ।
तम् उ त्वाङ्गिरा इति
ब्रह्माणः पूर्व्या विदुः ॥

०७ न त्वा पूर्वा

विश्वास-प्रस्तुतिः ...{Loading}...

न त्वा पूर्वा ओषधयो
न त्वा तरन्तु या नवाः ।
विबाध उग्रो जङ्गिडः
परिपाणः सुमङ्गलः ॥

०८ अश्वोपदान् भगवो जङ्गिडामितवीर्य

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वोपदान् भगवो
जङ्गिडामितवीर्य ।
पुरा त उग्राय सत
उपेन्द्रो वीर्यं ददौ ॥

०९ उग्र इत् ते

विश्वास-प्रस्तुतिः ...{Loading}...

उग्र इत् ते वनस्पत
इन्द्र ओज्मानम् आ दधौ ।
अमीवाः सर्वाश् चातयञ्
जहि रक्षांस्य् ओषधे ॥

१० अशरीकं विशरीकं बलासम्

विश्वास-प्रस्तुतिः ...{Loading}...

अशरीकं विशरीकं
बलासं पुष्ट्यामयम् ।
तक्मानं विश्वशारदम्
अरसं जङ्गिडस् करत् ॥