००२

सर्वाष् टीकाः ...{Loading}...

०१ अत्ससो यमनं ससो

विश्वास-प्रस्तुतिः ...{Loading}...

अत्ससो यमनं ससो
ऽभूतिर् यक्ष्मम् अजीजनत् ।
इमं सहस्रभाग् इन्द्रो
विशरं नाशयाति ते ॥

०२ यः कार्यो यश्

विश्वास-प्रस्तुतिः ...{Loading}...

यः कार्यो यश् च कृतः
स्वयंजा उत हार्यः ।
देवा इन्द्रज्येष्ठा
विशरं नाशयन्तु ते ॥

०३ विशरस्य विजृम्भस्य इषुर्

विश्वास-प्रस्तुतिः ...{Loading}...

विशरस्य विजृम्भस्य-
-इषुर् माता धनुष् पिता ।
आदित्याः पुत्रा आदित्या
विशरं नशयन्तु ते ॥

०४ धन्वनो ज्याया इष्वा

विश्वास-प्रस्तुतिः ...{Loading}...

धन्वनो ज्याया इष्वा
अपस्कम्भस्य बाह्वोः ।
अपाष्ठाच् छृङ्गात् कुर्मलाद्
विशरं नाशयामि ते ॥

०५ अलवती रुरुशीर्ष्ण्य् अथो

विश्वास-प्रस्तुतिः ...{Loading}...

अलवती रुरुशीर्ष्ण्य्
अथो यस्यायो मुखम् ।
देव्यै पर्जन्यरेतस
इषवे कृणुता नमः ॥

०६ याम् अत्रयो अङ्गिरसो

विश्वास-प्रस्तुतिः ...{Loading}...

याम् अत्रयो अङ्गिरसो
गोतमा वीरुधं विदुः ।
तया भरद्वाजः कण्वो
विशरं नाशयाति ते ॥

०७ यस् त्वा स्त्रैणाद्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा स्त्रैणाद् अपसरो
यः पुंसो अध्यारुहत् ।
आक्लान्तं संक्लान्तं स्नाव
तद् उ ते कल्पयामसि ॥

०८ वात इवाभ्रं च्यावयामि

विश्वास-प्रस्तुतिः ...{Loading}...

वात इवाभ्रं च्यावयामि
यक्ष्मं ते तन्वस् परि ।
वाचा यच् चक्रुस् ते गुरु
तद् ऋचा लघु कृण्मसि ।
तेनाहम् ऋतोद्येन
विशरं नाशयामि ते ॥

०९ यथा न सत्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा न सत्यं पुरुषः
सदा वदितुम् अर्हति ।
विष्कन्धं त्वद् अपशरं
विशरं पुष्ट्यामयम् ।
जम्भं हनुग्राभं शङ्खं
तान् अजेना अजामसि ॥

१० शुनम् इद् व

विश्वास-प्रस्तुतिः ...{Loading}...

शुनम् इद् व ओषधयो
वि दधे भेषजाय कम् ।
धनायुवः सनायुवः
पुरुषं पारयिष्णवः ॥

११ आत्मत्राणि देवजूता वीरुधायुष्या

विश्वास-प्रस्तुतिः ...{Loading}...

आत्मत्राणि देवजूता
वीरुधायुष्या कृता ।
तयाहम् इन्द्रदत्तया
विशरं नाशयामि ते ॥

१२ अलस्य व्यञ्जनस्य वेष्टनस्योत

विश्वास-प्रस्तुतिः ...{Loading}...

अलस्य व्यञ्जनस्य
वेष्टनस्योत पर्णधेः ।
ग्रन्थेर् ज्याया इष्वा
विशरं नाशयामि ते ॥

१३ साकं विष्कन्ध प्र

विश्वास-प्रस्तुतिः ...{Loading}...

साकं विष्कन्ध प्र पत
चाषेण किकिदीव्या ।
साकं वातस्य ध्राज्या
सह नश्य निहाकया ॥