०१२

सर्वाष् टीकाः ...{Loading}...

०१ यो मे भूतिम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो मे भूतिम् अनामयद्
वित्तम् आयुर् जिघांसति ।
इन्द्रश् च तस्मा अग्निश् च
दिवो अश्मानम् अस्यताम् ॥

०२ यो मे वेश्म

विश्वास-प्रस्तुतिः ...{Loading}...

यो मे वेश्म यो मे सभां
श्रियं श्रेष्ठां जिघांसति ।
इन्द्रश् च तस्याग्निश् च
कृत्यां वि तनुतां गृहे ॥

०३ यो मे मृत्युम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो मे मृत्युम् असमृद्धिम्
अह्ना रात्र्या चेच्छति ।
इन्द्रश् च तस्याग्निश् च-
-अर्चिषा दहतां स्वम् ॥

०४ यो मे प्राणम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो मे प्राणं यो मे ऽपानं
व्यानं श्रेष्ठं जिघांसति ।
इन्द्रश् च तस्याग्निश् च
प्राणं प्राणहनौ हताम् ॥

०५ यो मा देवजनैः

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा देवजनैः सर्पैर्
विद्युता ब्रह्मणाभ्यमात् ।
अगस्त्येन मेदिना-
-इन्द्रश् चाग्निश् च तं हताम् ॥

०६ तं सत्यौजाः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

तं सत्यौजाः प्र दहत्व्
अग्निर् वैश्वानरो वृषा ।
यो मा दुरस्यन्न् ईक्षातै
यश् च दिप्सति विद्वलः ॥

०७ यो मा दिप्साद्

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा दिप्साद् अदिप्सन्तं
यश् च दिप्सति दिप्स तम् ।
वैश्वानरस्य दंष्ट्रयोर्
अग्नेर् अपि दधामि तम् ॥

०८ अभि तं द्यावापृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

अभि तं द्यावापृथिवी संतपतां
तप्ते घर्मे न्युच्यताम् ।
निरृत्या वध्यतां पाशे
यो नः पापं चिकित्सति ॥

०९ प्रत्यग्वधेन प्रच्युतान् भ्रातृव्यान्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्यग्वधेन प्रच्युतान्
भ्रातृव्यान् घोरचक्षसः ।
इन्द्राग्नी एनान् वृश्चतां
मैषाम् उच् छेषि कश् चन ॥

१० प्रत्यग्वध प्रत्यग् जहि

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्यग्वध प्रत्यग् जहि
भ्रातृव्यान् द्विषतो मम ।
अपानान् प्राणां संछिद्य
द्विषतस् पातयाधरान् ॥

११ अग्ने ये मा

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने ये मा जिघांसन्त्य्
अग्ने ये च द्विषन्ति मा ।
अग्ने ये मोपतप्यन्ते
तेषां प्रियतमं जहि ॥

१२ एतं द्विषन्तम् अवधिषम्

विश्वास-प्रस्तुतिः ...{Loading}...

एतं द्विषन्तम् अवधिषम्
अन्धेन तमसावृतम् ।
एतं मृत्यो ऽभि पद्यस्व
मा ते मोचि महोदरः ॥