०११

सर्वाष् टीकाः ...{Loading}...

०१ यो नः स्वो

विश्वास-प्रस्तुतिः ...{Loading}...

यो नः स्वो यो अरणो
भ्रातृव्यश् च जिघांसति ।
इन्द्रश् च तस्याग्निश् च
मर्म स्कन्धेषु विन्दताम् ॥

०२ यो मा शयानम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा शयानं जाग्रतं
यश् च सुप्तं जिघांसति ।
इन्द्रश् च तस्याग्निश् च
बाहू मर्मणि वृश्चताम् ॥

०३ यो मा चरन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा चरन्तं तिष्ठन्तम्
आसीनं च जिघांसति ।
इन्द्रश् च तस्मिन्न् अग्निश् च
दुरितं प्रति मुञ्चताम् ॥

०४ यो मा चक्षुषा

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा चक्षुषा मनसा
यश् च वाचा जिघांसति ।
इन्द्रश् च तस्मा अग्निश् च-
-एनांसि वहताम् इतः ॥

०५ यः पिशाचो यातुधानः

विश्वास-प्रस्तुतिः ...{Loading}...

यः पिशाचो यातुधानः
क्रव्याद् यो मा जिघांसति ।
इन्द्रश् च तस्याग्निश् च
मूर्धानं प्रति विध्यताम् ॥

०६ यो मा ब्रह्मणा

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा ब्रह्मणा तपसा
यश् च यज्ञैर् जिघांसति ।
इन्द्रश् च तस्याग्निश् च
हृदये ऽधि नि विध्यताम् ॥

०७ यो मे ब्रह्म

विश्वास-प्रस्तुतिः ...{Loading}...

यो मे ब्रह्म यो मे तपो
बलं श्रेष्ठं जिघांसति ।
इन्द्रश् च तस्मा अग्निश् च
क्रुद्धौ दिग्धाभिर् अस्यताम् ॥

०८ यो मे अन्नम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो मे अन्नं यो मे रसं
वाचं श्रेष्ठां जिघांसति ।
इन्द्रश् च तस्मा अग्निश् च-
-आच्छम्बट्कारम् अस्यताम् ॥

०९ यो मे तन्तुम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो मे तन्तुं यो मे प्रजां
चक्षुः श्रोत्रं जिघांसति ।
इन्द्रश् च तस्मा अग्निश् च
हेतिं देवेषु विन्दताम् ॥

१० यो मे गोभ्य

विश्वास-प्रस्तुतिः ...{Loading}...

यो मे गोभ्य इरस्यत्य्
अश्वेभ्यः पुरुषेभ्यः ।
इन्द्रश् च तस्मा अग्निश् च
ज्यानिं देवेषु विन्दताम् ॥