०१०

सर्वाष् टीकाः ...{Loading}...

०१ अगन्म देवाः स्वः

विश्वास-प्रस्तुतिः ...{Loading}...

अगन्म देवाः स्वः स्वर् अगन्म-
-अगन्म ज्योतिर् ज्योतिर् अगन्म ।
महेन्द्रो ऽसि परमेष्ठी
सुमित्र विश्वतोमुख
मा ते युयोम संदृशः ॥

०२ उद्यन्न् अद्य चित्रमहः

विश्वास-प्रस्तुतिः ...{Loading}...

उद्यन्न् अद्य चित्रमहः
सपत्नान् मे ऽव जहि । +++(Bhatt. meva)+++
दिवैनान् रश्मिभिर् जहि
रात्र्येनांस् तमसा वधीस्
ते यन्त्व् अधमं तमः ॥

०३ सूर्यस्यावृतम् अन्वावर्ते दक्षिणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्यस्यावृतम् अन्वावर्ते
दक्षिणाम् अन्वावृतम् ।
अग्नेस् तेजसा तेजस्वी भूयासम्
इन्द्रस्येन्द्रियेणेन्द्रियावान् भूयासम् ॥

०४ इदम् अहम् अग्नेस्

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् अहम् अग्नेस् तेजसा-
-इन्द्रस्येन्द्रियेण
सोमस्य द्युम्नेन
विश्वेषां देवानां क्रतूनाम् ।
अमुष्यामुष्यायणस्य-
-अमुष्याः पुत्रस्य
वर्चस् तेज इन्द्रियं
प्राणम् आयुर् नि वेष्टयामि ॥

०५ आयुर् नि यच्छेत्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) आयुर् नि यच्छेत् ॥

०६ इदम् अहम् अग्नेस्

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् अहम् अग्नेस् तेजसा-
-इन्द्रस्येन्द्रियेण
सोमस्य द्युम्नेन
विश्वेषां देवानां क्रतूनाम् ।
अमुष्यामुष्यायणस्य-
-अमुष्याः पुत्रस्य
वर्चस् तेज इन्द्रियं
प्राणम् आयुर् आ दाय ॥

०७ अभूत्या एनं पाशे

विश्वास-प्रस्तुतिः ...{Loading}...

अभूत्या एनं पाशे
सित्वा दुष्वप्न्येन
संसृज्य मृत्योर् व्यात्त
आसन्न् अपि दधामि ॥