००९

सर्वाष् टीकाः ...{Loading}...

०१ ये ऽप्स्व् अन्तर्

विश्वास-प्रस्तुतिः ...{Loading}...

ये ऽप्स्व् अन्तर् अग्नयः प्रविष्टा
म्रोको मनोहा खनो निर्दाह
आत्मदूषिस् तनदूषिः ।
इदं तान् अति सृजामि
निर् एनो निर् अनृतं सृजामि ॥

०२ अभूत्या सत्वाय निर्

विश्वास-प्रस्तुतिः ...{Loading}...

अभूत्या सत्वाय
निर् दुष्वप्न्यं सृजामि ।
वसिष्ठारुन्धती मा पातां
प्रजापतेः प्रस्तरो बृहस्पतेः केशाः ॥

०३ अदब्धं चक्षुः सुश्रुतौ

विश्वास-प्रस्तुतिः ...{Loading}...

अदब्धं चक्षुः सुश्रुतौ कर्णाव् अक्षितौ मे प्राणापानौ ।
हृदया जरसं मा मा हासीर् मध्य मा रिषम् ॥

०४ आपो मा शुन्धन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

आपो मा शुन्धन्तु दुष्कृताद्
दुरिता यानि चकृम ।
अयाम शुद्धा उदितस् तनूभिः ॥

०५ वैश्वानरो रश्मिभिर् नः

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरो रश्मिभिर् नः पुनातु
वातः प्राणेनेषिरो नमोभिः ।
द्यावापृथिवी पयसा पयस्वती
ऋतावरी यज्ञिये मा पुनीताम् ॥

०६ पुनन्तु माग्नयो गार्हपत्याः

विश्वास-प्रस्तुतिः ...{Loading}...

पुनन्तु माग्नयो गार्हपत्याः
पुनन्तु मा धृष्ण्या देवहूताः ।
पुनन्तु मा शक्वरीः सोमपृष्ठाः
पवमानासो अज्रिणः ॥

०७ यः पोता स

विश्वास-प्रस्तुतिः ...{Loading}...

यः पोता स पुनातु मा
बृहद्भिर् देव सवितः ।
वर्षिष्ठैर् द्याम् इवोपरि ॥

०८ ब्रह्मसवैः पुनातु मा

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मसवैः पुनातु मा
राजसवैः पुनातु मा ।
शतं पवित्रा वितता तिरश्चा
तेभिर् मा देवः सविता पुनातु ॥

०९ शतं च मा

विश्वास-प्रस्तुतिः ...{Loading}...

शतं च मा पवितारः पुनन्तु
सहस्रं च प्रस्रवणेष्व् आपः ।
आप इव पूतो ऽस्म्य् अग्निर् इव सुवर्चाः
सूर्य इव सुचक्षाः ॥

१० उरूणसाव् असुतृपा उदुम्बलौ

विश्वास-प्रस्तुतिः ...{Loading}...

उरूणसाव् असुतृपा उदुम्बलौ
यमस्य दूतौ चरतो जनाꣳ अनु ।
ताव् अस्मभ्यं दृशये सूर्याय
पुनर् दाताम् असुम् अद्येह भद्रम् ॥