००७

सर्वाष् टीकाः ...{Loading}...

०१ गोभिष् ट्वा पात्व्

विश्वास-प्रस्तुतिः ...{Loading}...

गोभिष् ट्वा पात्व् ऋषभो
वृषा त्वा पातु वाजिभिः ।
वायुष् ट्वा ब्रह्मणा पात्व्
इन्द्रस् त्वा पात्व् इन्द्रियैः ॥

०२ सोमस् त्वा पात्व्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमस् त्वा पात्व् ओषधीभिर्
नक्षत्रैः पातु सूर्यः ।
माद्भिष् ट्वा चन्द्रो वृत्रहा
वातः प्राणेन रक्षतु ॥

०३ तिस्रो दिवस् तिस्रः

विश्वास-प्रस्तुतिः ...{Loading}...

तिस्रो दिवस् तिस्रः पृथिवीस्
त्रीण्य् अन्तरिक्षाणि चतुरः समुद्रान् ।
त्रिवृतं स्तोमं त्रिवृत आप आहुस्
तास् त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥

०४ त्रीन् नाकांस् त्रीन्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रीन् नाकांस् त्रीन् समुद्रांस् त्रीन् ब्रध्नांस् त्रीन् वैष्टपान् ।
त्रीन् मातरिश्वनस् त्रीन् सूर्यान् गोप्तॄन् कल्पयामि ते ॥

०५ घृतेन त्वा सम्

विश्वास-प्रस्तुतिः ...{Loading}...

घृतेन त्वा सम् उक्षाम्य्
अग्न आज्येन वर्धयन् ।
अग्नेश् चन्द्रस्य सूर्यस्य
मा प्राणं मायिनो दभन् ॥

०६ मा वः प्राणम्

विश्वास-प्रस्तुतिः ...{Loading}...

मा वः प्राणं मा वो ऽपानं
मा हरो मायिनो दभन् ।
भ्राजन्तो विश्ववेदसो
देवा दैव्येन मावत ॥

०७ प्राणेनाग्निं सं दधति

विश्वास-प्रस्तुतिः ...{Loading}...

प्राणेनाग्निं सं दधति
वातः प्राणेन संहितः ।
प्राणेन विश्वतोमुखं
सूर्यं देवा अजनयन् ॥

०८ आयुषायुष्कृतां जीव आयुष्माम्

विश्वास-प्रस्तुतिः ...{Loading}...

आयुषायुष्कृतां जीव-
-आयुष्मां जीव मा मृथाः ।
प्राणेनात्मन्वतां जीव
मा मृत्योर् उप गा वशम् ॥

०९ देवानां निहितं निधिम्

विश्वास-प्रस्तुतिः ...{Loading}...

देवानां निहितं निधिं
यम् इन्द्रान्वविन्दन् पथिभिर् देवयानैः ।
आपो हिरण्यं जुगुपुस् त्रिवृद्भिस्
तास् त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥

१० त्रयस्त्रिंशद् देवतास् त्रीणि

विश्वास-प्रस्तुतिः ...{Loading}...

त्रयस्त्रिंशद् देवतास् त्रीणि च वीर्याणि
प्रियायमाणा जुगुपुर् अप्स्व् अन्तः ।
अस्मिंश् चन्द्रे अधि यद् धिरण्यं
तेनायं कृणवद् वीर्याणि ॥