सर्वाष् टीकाः ...{Loading}...
०१ भगस्य राज्ञः सुमतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
भगस्य राज्ञः सुमतिं गमेम
यं हवन्ते बहुधा मानुषासः ।
कर्म कृण्वानो भगम् आ वृणीते
स नो जनेषु सुभगां कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगस्य राज्ञः सुमतिं गमेम
यं हवन्ते बहुधा मानुषासः ।
कर्म कृण्वानो भगम् आ वृणीते
स नो जनेषु सुभगां कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ भगं पुरस्तात् प्रतिबुध्यमानाः
विश्वास-प्रस्तुतिः ...{Loading}...
भगं पुरस्तात् प्रतिबुध्यमानाः
पश्येम देवीम् उषसं विभातीम् ।
प्रतीची शुभ्रा द्रविणेन साकं
भगं वहन्त्य् अदितिर् न ऐतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगं पुरस्तात् प्रतिबुध्यमानाः
पश्येम देवीम् उषसं विभातीम् ।
प्रतीची शुभ्रा द्रविणेन साकं
भगं वहन्त्य् अदितिर् न ऐतु ॥
सर्वाष् टीकाः ...{Loading}...
०३ भगो नो अद्य
विश्वास-प्रस्तुतिः ...{Loading}...
भगो नो अद्य स्विते दधातु
देवानां पन्थाम् अभि नो नयेह ।
अर्वाची भद्रा सुमतिर् न ऐत्व्
अधा भगेन समिधो नो अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगो नो अद्य स्विते दधातु
देवानां पन्थाम् अभि नो नयेह ।
अर्वाची भद्रा सुमतिर् न ऐत्व्
अधा भगेन समिधो नो अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
०४ भगेन वाचम् इषिताम्
विश्वास-प्रस्तुतिः ...{Loading}...
भगेन वाचम् इषितां वदानि
सरस्वतीं मधुमतीं सुवर्चाः ।
भगेन दत्तम् उप मेदम् आगन्
यथा वर्चस्वान् समितिम् आवदानि ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगेन वाचम् इषितां वदानि
सरस्वतीं मधुमतीं सुवर्चाः ।
भगेन दत्तम् उप मेदम् आगन्
यथा वर्चस्वान् समितिम् आवदानि ॥
सर्वाष् टीकाः ...{Loading}...
०५ भगो मा गोष्व्
विश्वास-प्रस्तुतिः ...{Loading}...
भगो मा गोष्व् अवतु
भगो मावतु धान्ये ।
अक्षेषु स्त्रीषु मा भगो
भगो मावतु वर्चसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगो मा गोष्व् अवतु
भगो मावतु धान्ये ।
अक्षेषु स्त्रीषु मा भगो
भगो मावतु वर्चसा ॥
सर्वाष् टीकाः ...{Loading}...
०६ भगो मा सायम्
विश्वास-प्रस्तुतिः ...{Loading}...
भगो मा सायम् अवतु
भगो मावतु रात्र्या ।
भगो निपद्यमानेषु
प्रातर् मा भग आ गमत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगो मा सायम् अवतु
भगो मावतु रात्र्या ।
भगो निपद्यमानेषु
प्रातर् मा भग आ गमत् ॥
सर्वाष् टीकाः ...{Loading}...
०७ भगो मा प्रातर्
विश्वास-प्रस्तुतिः ...{Loading}...
भगो मा प्रातर् अवतु
भगो मध्यन्दिनं परि ।
अपराह्णे वयं भगं
वास इव परि दध्महे ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगो मा प्रातर् अवतु
भगो मध्यन्दिनं परि ।
अपराह्णे वयं भगं
वास इव परि दध्महे ॥
सर्वाष् टीकाः ...{Loading}...
०८ भगं देवेभ्यस् परि
विश्वास-प्रस्तुतिः ...{Loading}...
भगं देवेभ्यस् परि
भगं मनुष्येभ्यः ।
दिवस् पृथिव्या अहम्
अन्तरिक्षाद् भगं वृणे ।
सो अग्ने रमता मयि
स मा प्रावतु वर्चसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगं देवेभ्यस् परि
भगं मनुष्येभ्यः ।
दिवस् पृथिव्या अहम्
अन्तरिक्षाद् भगं वृणे ।
सो अग्ने रमता मयि
स मा प्रावतु वर्चसा ॥
सर्वाष् टीकाः ...{Loading}...
०९ भगं वृणाना वध्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
भगं वृणाना वध्वं वहन्ति
वनिं प्रयन्तो भगम् इद् धवन्ते ।
भगेन दत्तम् उप मेदम् आगन्
विश्वं सुभूतं द्रविणानि भद्रा ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगं वृणाना वध्वं वहन्ति
वनिं प्रयन्तो भगम् इद् धवन्ते ।
भगेन दत्तम् उप मेदम् आगन्
विश्वं सुभूतं द्रविणानि भद्रा ॥
सर्वाष् टीकाः ...{Loading}...
१० भगेन देवाः समगन्महि
विश्वास-प्रस्तुतिः ...{Loading}...
भगेन देवाः समगन्महि
य इमा विश्वा भुवनाभिवस्ते ।
प्रयच्छन्न् एति बहुधा वसूनि
स नो दधातु यतमद् वसिष्ठम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगेन देवाः समगन्महि
य इमा विश्वा भुवनाभिवस्ते ।
प्रयच्छन्न् एति बहुधा वसूनि
स नो दधातु यतमद् वसिष्ठम् ॥
सर्वाष् टीकाः ...{Loading}...
११ वातो भगो वरुणो
विश्वास-प्रस्तुतिः ...{Loading}...
वातो भगो वरुणो वायुर् अग्निः
क्षेत्रस्य पत्नी सुहवा नो अस्तु ।
हिरण्याक्षो अतिपश्यो नृचक्षाः
सर्वैः साकं सचमानो न एहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
वातो भगो वरुणो वायुर् अग्निः
क्षेत्रस्य पत्नी सुहवा नो अस्तु ।
हिरण्याक्षो अतिपश्यो नृचक्षाः
सर्वैः साकं सचमानो न एहि ॥
सर्वाष् टीकाः ...{Loading}...
१२ उद् एहि देव
विश्वास-प्रस्तुतिः ...{Loading}...
उद् एहि देव सूर्य
सह सौभाग्येन ।
सहर्षभस्य वाजेन
सहावतंकरणेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् एहि देव सूर्य
सह सौभाग्येन ।
सहर्षभस्य वाजेन
सहावतंकरणेन ॥
सर्वाष् टीकाः ...{Loading}...
१३ हिरण्ययेनेत्य् एका
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्ययेनेत्य् एका ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्ययेनेत्य् एका ॥