००५

सर्वाष् टीकाः ...{Loading}...

०१ औदुम्बरेण मणिना पुष्टिकामाय

विश्वास-प्रस्तुतिः ...{Loading}...

औदुम्बरेण मणिना
पुष्टिकामाय वेधसा ।
पशूनां सर्वेषां स्फातिं
गोष्ठे मे सविता करत् ॥

०२ यो नो अग्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

यो नो अग्निर् गार्हपत्यः
पशूनाम् अधिपा असत् ।
औदुम्बरो वृषा मणिः
सं मा सृजतु पुष्ट्या ॥

०३ करीषिणीं फलवतीं स्वधाम्

विश्वास-प्रस्तुतिः ...{Loading}...

करीषिणीं फलवतीं
स्वधाम् इरां च नो गृहे ।
औदुम्बरस्य तेजसा
धाता पुष्टिं दधातु मे ॥

०४ यद् द्विपाच् च

विश्वास-प्रस्तुतिः ...{Loading}...

यद् द्विपाच् च चतुष्पाच् च
यान्य् अन्नानि ये रसाः ।
गृह्णे ऽहं तेषां भूमानं
बिभ्रद् औदुम्बरं मणिम् ॥

०५ पुष्टिं पशूनां परि

विश्वास-प्रस्तुतिः ...{Loading}...

पुष्टिं पशूनां परि जग्रभाहं
चतुष्पदां द्विपदां यच् च धान्यम् ।
पयः पशूनां रसम् ओषधीनां
बृहस्पतिः सविता मे नि यच्छात् ॥

०६ अहं पशूनाम् अधिपा

विश्वास-प्रस्तुतिः ...{Loading}...

अहं पशूनाम् अधिपा असानि
मयि पुष्टं पुष्टपतिर् दधातु ।
मह्यम् औदुम्बरो मणिर्
द्रविणानि नि यच्छतु ॥

०७ उप मौदुम्बरो मणिः

विश्वास-प्रस्तुतिः ...{Loading}...

उप मौदुम्बरो मणिः
प्रजया च धनेन च ।
इन्द्रेण जिन्वतो मणिर्
आ मागन् सह वर्चसा ॥

०८ देवो मणिः सपत्नहा

विश्वास-प्रस्तुतिः ...{Loading}...

देवो मणिः सपत्नहा
धनसा धनसातये ।
पशोर् अन्नस्य भूमानां
गवां स्फातिं नि यच्छतु ॥

०९ यथाग्रे त्वं वनस्पते

विश्वास-प्रस्तुतिः ...{Loading}...

यथाग्रे त्वं वनस्पते
पुष्ट्या सह जज्ञिषे ।
एवा धनस्य मे स्फातिम्
आ दधातु सरस्वती ॥

१० आ मे धनम्

विश्वास-प्रस्तुतिः ...{Loading}...

आ मे धनं सरस्वती
पयस्फातिं च धान्यम् ।
सिनीवाल्य् उता वहाद्
अयं चौदुम्बरो मणिः ॥

११ त्वं मणीनाम् अधिपा

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं मणीनाम् अधिपा वृषासि
त्वयि पुष्टं पुष्टपतिर् जजान ।
त्वयीमे वाजा द्रविणानि सर्वा-
-उदुम्बर स त्वम् अस्मत् सहस्व-
-आराद् अरातिम् अमतिं क्षुधं च ॥

१२ ग्रामणीर् असि ग्रामणीथ्याया

विश्वास-प्रस्तुतिः ...{Loading}...

ग्रामणीर् असि ग्रामणीथ्याया
अभिषिक्तो अभि मा सिञ्च वर्चसा ।
तेजो ऽसि तेजो मयि धारयाधि
रयिर् असि रयिं मयि धेहि ॥

१३ पुष्टिर् असि पुष्ट्या

विश्वास-प्रस्तुतिः ...{Loading}...

पुष्टिर् असि पुष्ट्या मा सम् अङ्धि
गृहमेधी गृहपतिं मा कृणु ।
औदुम्बर स त्वम् अस्मासु रयिं
सर्ववीरं नि यच्छ रायस्पोषाय
प्रति मुञ्चे अहं त्वाम् ॥

१४ अयम् औदुम्बरो मणिर्

विश्वास-प्रस्तुतिः ...{Loading}...

अयम् औदुम्बरो मणिर्
वीरो वीराय बध्यते ।
स नः सनीं मधुमतीं कृणोतु
रयिं च नः सर्ववीरं नि यच्छात् ॥