सर्वाष् टीकाः ...{Loading}...
०१ इदं राष्ट्रं प्रथताम्
विश्वास-प्रस्तुतिः ...{Loading}...
इदं राष्ट्रं प्रथतां गोभिर् अश्वैर्
इदं राष्ट्रम् अन्नेनेरया रसेन ।
अस्मै षड् उर्वीर् उप सं नमन्तु
सप्तहोत्रा हत शत्रून् सचित्ताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं राष्ट्रं प्रथतां गोभिर् अश्वैर्
इदं राष्ट्रम् अन्नेनेरया रसेन ।
अस्मै षड् उर्वीर् उप सं नमन्तु
सप्तहोत्रा हत शत्रून् सचित्ताः ॥
सर्वाष् टीकाः ...{Loading}...
०२ इमे राजान इषुभिर्
विश्वास-प्रस्तुतिः ...{Loading}...
इमे राजान इषुभिर् घ्नन्तु शत्रून्
इमे राजानः समित्यान्यान् वधेयुः ।
इमे राजानः पृतनाः सहन्ताम्
अहं ब्रह्मा वि मृधो हन्मि सर्वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमे राजान इषुभिर् घ्नन्तु शत्रून्
इमे राजानः समित्यान्यान् वधेयुः ।
इमे राजानः पृतनाः सहन्ताम्
अहं ब्रह्मा वि मृधो हन्मि सर्वाः ॥
सर्वाष् टीकाः ...{Loading}...
०३ इदं राष्ट्रं क्रतुमद्
विश्वास-प्रस्तुतिः ...{Loading}...
इदं राष्ट्रं क्रतुमद् वीरवज् जिष्णूग्रम्
इदं राष्ट्रं गर्द्नुमच् चित्रघोषम् ।
अस्मै राष्ट्राय बलिम् अन्ये हरन्त्व्
अहं देवेभ्यो हविषा विधेयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं राष्ट्रं क्रतुमद् वीरवज् जिष्णूग्रम्
इदं राष्ट्रं गर्द्नुमच् चित्रघोषम् ।
अस्मै राष्ट्राय बलिम् अन्ये हरन्त्व्
अहं देवेभ्यो हविषा विधेयम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यदि युद्धं यद्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यदि युद्धं यद्य् ऋतितं वो अस्ति
देवैनसाद् यदि वा पित्र्येण ।
येनर्त्तीया धेनवो अस्तु तस्मा
अहं देवेभ्यो हविषा जुहोमि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदि युद्धं यद्य् ऋतितं वो अस्ति
देवैनसाद् यदि वा पित्र्येण ।
येनर्त्तीया धेनवो अस्तु तस्मा
अहं देवेभ्यो हविषा जुहोमि ॥
सर्वाष् टीकाः ...{Loading}...
०५ यद् वः क्रूरम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् वः क्रूरं मनसो यच् च वाचो
देवैनसाद् यदि वा पित्र्येण ।
आप इव दुःष्वप्न्यम् अप तत् स्वपध्वम्
अथानन्दिनः सुमनसः सम् एत ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् वः क्रूरं मनसो यच् च वाचो
देवैनसाद् यदि वा पित्र्येण ।
आप इव दुःष्वप्न्यम् अप तत् स्वपध्वम्
अथानन्दिनः सुमनसः सम् एत ॥
सर्वाष् टीकाः ...{Loading}...
०६ अपाम् इव वेगः
विश्वास-प्रस्तुतिः ...{Loading}...
अपाम् इव वेगः प्र शृणीत शत्रून्
दिशोदिशो रभमाणः सम् एत ।
एकव्रता वि धनं भजध्वं
पुरोहितेन वो राष्ट्रं प्रथयन्तु देवाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपाम् इव वेगः प्र शृणीत शत्रून्
दिशोदिशो रभमाणः सम् एत ।
एकव्रता वि धनं भजध्वं
पुरोहितेन वो राष्ट्रं प्रथयन्तु देवाः ॥
सर्वाष् टीकाः ...{Loading}...
०७ सम्यग् वो राष्ट्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
सम्यग् वो राष्ट्रं सह वो मनांसि
समीचीनाः पशवो विश्वरूपाः ।
समीचीनानां वो अहम् अस्मि ब्रह्मा
सम्यञ्चो देवा हवम् आ यन्तु म इमम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सम्यग् वो राष्ट्रं सह वो मनांसि
समीचीनाः पशवो विश्वरूपाः ।
समीचीनानां वो अहम् अस्मि ब्रह्मा
सम्यञ्चो देवा हवम् आ यन्तु म इमम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ यथापः समुद्राय समीचीर्
विश्वास-प्रस्तुतिः ...{Loading}...
यथापः समुद्राय
समीचीर् वहथ श्रियम् ।
एवा राष्ट्राय मे देवाः
सम्यञ्चो वहत श्रियम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथापः समुद्राय
समीचीर् वहथ श्रियम् ।
एवा राष्ट्राय मे देवाः
सम्यञ्चो वहत श्रियम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ संसृष्टं वो राष्ट्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
संसृष्टं वो राष्ट्रं पशुभिर् गोभिर् अश्वैः
संसृष्टम् अन्नेनेरया रसेन ।
मया ब्रह्मणा प्रथमानाश्वो
वसीयांसः सदम् उग्रा भवाथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
संसृष्टं वो राष्ट्रं पशुभिर् गोभिर् अश्वैः
संसृष्टम् अन्नेनेरया रसेन ।
मया ब्रह्मणा प्रथमानाश्वो
वसीयांसः सदम् उग्रा भवाथ ॥
सर्वाष् टीकाः ...{Loading}...
१० बहुर् युवा प्रमृणो
विश्वास-प्रस्तुतिः ...{Loading}...
बहुर् युवा प्रमृणो धृष्णुर् अस्तु
बहुः कुमारः प्रतिरूपः पितॄणाम् ।
सत्यं वदन्तः समितिं चरन्तो
मित्रं गृह्णाना जरसो यन्तु सख्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
बहुर् युवा प्रमृणो धृष्णुर् अस्तु
बहुः कुमारः प्रतिरूपः पितॄणाम् ।
सत्यं वदन्तः समितिं चरन्तो
मित्रं गृह्णाना जरसो यन्तु सख्यम् ॥
सर्वाष् टीकाः ...{Loading}...
११ इह क्षत्रं द्युम्नम्
विश्वास-प्रस्तुतिः ...{Loading}...
इह क्षत्रं द्युम्नम् उत राष्ट्रं समैत्व्
इहेन्द्रियं पशुभिः संविदानम् ।
अवधुन्वाना अप्रियान् यांश् च द्विष्म
इदं राष्ट्रं प्रथतां सर्वदैव ॥
मूलम् ...{Loading}...
मूलम् (GR)
इह क्षत्रं द्युम्नम् उत राष्ट्रं समैत्व्
इहेन्द्रियं पशुभिः संविदानम् ।
अवधुन्वाना अप्रियान् यांश् च द्विष्म
इदं राष्ट्रं प्रथतां सर्वदैव ॥
सर्वाष् टीकाः ...{Loading}...
१२ इदं राष्ट्रम् इषुमद्
विश्वास-प्रस्तुतिः ...{Loading}...
इदं राष्ट्रम् इषुमद् वीरवज् जिष्णूग्रम्
इदं राष्ट्रं पशुमद् ब्रह्मवृद्धम् ।
इदं राष्ट्रं हतशत्रु जिष्णु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं राष्ट्रम् इषुमद् वीरवज् जिष्णूग्रम्
इदं राष्ट्रं पशुमद् ब्रह्मवृद्धम् ।
इदं राष्ट्रं हतशत्रु जिष्णु ॥
सर्वाष् टीकाः ...{Loading}...
१३ सपत्नसाहं प्रमृणम् इदम्
विश्वास-प्रस्तुतिः ...{Loading}...
सपत्नसाहं प्रमृणम्
इदं राष्ट्रं दृढम् उग्रम् ।
साढामित्रम् अभिमातिषाहं
सर्वा जिगाय पृतना अभिष्टि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सपत्नसाहं प्रमृणम्
इदं राष्ट्रं दृढम् उग्रम् ।
साढामित्रम् अभिमातिषाहं
सर्वा जिगाय पृतना अभिष्टि ॥