००२

सर्वाष् टीकाः ...{Loading}...

०१ त्वयीन्द्रियं त्वयि वर्चस्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वयीन्द्रियं त्वयि वर्चस्
त्वं धर्मपतिर् भव ।
त्वम् उत्तरो भ्रातृव्येभ्यस्
तव लक्ष्मीः पयस्वती ॥

०२ तवैताम् अश्विना हवम्

विश्वास-प्रस्तुतिः ...{Loading}...

तवैताम् अश्विना हवं
तव राष्ट्रं दिवि श्रितम् ।
त्वम् आयुष्मान् सपत्नहा-
-उत्तरो द्विषतो भव ॥

०३ तीक्ष्णशृङ्ग ऋषभः समुद्र

विश्वास-प्रस्तुतिः ...{Loading}...

तीक्ष्णशृङ्ग ऋषभः
समुद्र इवाक्षितोदकः ।
त्वं सहस्रवीर्यस्
तव बाहू गवां पती ॥

०४ भ्रातृव्यश् च सपत्नश्

विश्वास-प्रस्तुतिः ...{Loading}...

भ्रातृव्यश् च सपत्नश् च
यस् त्वामित्रो जिघांसति ।
श्रियं त्वं सर्वेषां तेषाम्
आदायोग्रो वि धारय ॥

०५ त्वं वशी सत्याकूतः

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं वशी सत्याकूतः
सत्यधर्मा गवेषणः ।
नाष्ट्रास् त्वं सर्वास् तीर्त्वा
भ्रातृव्याणां श्रियं वृह ॥

०६ तुभ्यं सं यन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्यं सं यन्तु बलयस्
तुभ्यं शुल्कः प्र वीयताम् ।
तुभ्यं विराट् पयो दुहां
त्वां वाञ्छन्तु विशो महीः ॥

०७ वाञ्छतु त्वा बृहद्

विश्वास-प्रस्तुतिः ...{Loading}...

वाञ्छतु त्वा बृहद् राष्ट्रं
त्विषिस् ते मुख आहिता ।
त्वं देवानां भव प्रियस्
त्वयि गावो अधिश्रिताः ॥

०८ त्वयीन्द्रियं त्वयि वर्चस्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वयीन्द्रियं त्वयि वर्चस्
त्वयि यज्ञो अधिश्रितः ।
तवा यन्तु हवं देवास्
त्वं प्रियो बृहस्पतेः ॥

०९ अग्नीषोमा पवमानौ विराड्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नीषोमा पवमानौ
विराड् देवी पयस्वती ।
अतन्द्रं सर्वे रक्षन्तु
राष्ट्रं ते नपवाद्यम् ॥

१० अग्निर् इव तृणम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् इव तृणं प्र दह-
-ओघः कूलम् इवा रुज ।
श्रियं भ्रातृव्याणाम् आ दत्स्व-
-आण्डीकम् इवाधि पुष्करात् ॥