००१

सर्वाष् टीकाः ...{Loading}...

०१ हा अम्ब तेजने

विश्वास-प्रस्तुतिः ...{Loading}...

हा अम्ब तेजने
धेनो लम्बनस्तनि ।
न तद् विदो यद् इच्छसि
यद् उ वित्तं न तद् घसः ॥

०२ पुत्रो यस् ते

विश्वास-प्रस्तुतिः ...{Loading}...

पुत्रो यस् ते पृश्निबाहुस्
तम् उ त्वं सामनं कृधि ।
अथो दुहितरं नप्त्रीम्
अथो त्वं सामना भव ॥

०३ असामे कुरमे नैगूरस्य

विश्वास-प्रस्तुतिः ...{Loading}...

असामे कुरमे +++(see Hoffmann, Aufsätze p. 7)+++
नैगूरस्य स्वसः ।
अराते निरृते
अमते स्नुहिते ॥

०४ परेत कस्तुपकं वः

विश्वास-प्रस्तुतिः ...{Loading}...

परेत कस्तुपकं वः
पुनर् ददामि ।
यो वो न वेद तं हत
तस्यात्त परिशिश्न्यम् ॥ +++(Bhatt. tasyātu)+++

०५ तस्यात्त पुत्रान् भ्रातॄंश्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्यात्त पुत्रान् भ्रातॄंश् च +++(Bhatt. tasyāttu)+++
तस्य गोष्ठं वितावत ।
यश् च सतो नास्तिवाकी
यश् चासाव् अहविर्गृहः ।
दुर्णाम्नीस् तत्र गच्छत
तत्र सर्वाः परेतन ॥

०६ परि धामानीत्य् एका

विश्वास-प्रस्तुतिः ...{Loading}...

परि धामानीत्य् एका ॥

०७ अन्तश्चरां कोशेचराम् अथो

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तश्चरां कोशेचराम्
अथो गोष्ठावचारिणीम् ।
अथो याः स्वप्ने पश्यामस्
ता इतो नाशयामसि ॥

०८ कण्वा या गर्दभीव

विश्वास-प्रस्तुतिः ...{Loading}...

कण्वा या गर्दभीव
निभसत् सूकरीव ।
तस्यै प्रतिप्रवर्तय
तप्तम् अश्मानम् आसनि ॥

०९ यो मर्या अभिगच्छात्

विश्वास-प्रस्तुतिः ...{Loading}...

यो मर्या अभिगच्छात्
स्त्रियं कस्तुपस्तोपिनीम् ।
कस्तुपम् अस्या आच्छिद्य-
-अथैनां चातयातै
परमां चित् परावतम् ॥

१० या भद्रा या

विश्वास-प्रस्तुतिः ...{Loading}...

या भद्रा या शिवा
योर्जा पयसा सह ।
अग्निष् टा अस्माकं गृहे
गार्हपत्यो नि यच्छतु ॥

११ इदं वो देवः

विश्वास-प्रस्तुतिः ...{Loading}...

इदं वो देवः सविता-
-इदं देवो बृहस्पतिः ।
इदं वो विश्वे देवा
अवसानम् अयुक्षत ॥

१२ परि प्रागाद् देवो

विश्वास-प्रस्तुतिः ...{Loading}...

परि प्रागाद् देवो अग्नी
रक्षोहामीवचातनः ।
सेधन् विश्वा अप द्विषो
दहन् रक्षांसि विश्वहा ॥

१३ परीमे गाम् अनेषत

विश्वास-प्रस्तुतिः ...{Loading}...

परीमे गाम् अनेषत
पर्य् अग्निम् अहृषत ।
देवेष्व् अक्रत श्रवः
क इमाँ आ दधर्षति ॥