०२९

सर्वाष् टीकाः ...{Loading}...

०१ अश्वत्थम् अग्निम् आज्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वत्थम् अग्निम् आज्यं
दूतान् कृण्वे मनोजवान् ।
अग्निश् चरुम् इवार्चिषा
कामो विध्यतु त्वा मम
प्र (…) ॥ +++(see 9.28.1e)+++

०२ शयानम् अग्न आसीनम्

विश्वास-प्रस्तुतिः ...{Loading}...

शयानम् अग्न आसीनम्
अश्वत्थश् च सवासिनौ ।
चरन्तम् उपतिष्ठन्तं
ममाधिभिर् वि विध्यतं
प्र (…) ॥ +++(see 9.28.1e)+++

०३ चरन्तं त्वा तिष्ठन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

चरन्तं त्वा तिष्ठन्तम्
आसीनम् अपि संसदि ।
रेष्मा तृणम् इव मथ्नातु
दहन् कामरथो मम
प्र (…) ॥ +++(see 9.28.1e)+++

०४ यथेन्द्रायासुरान् अरन्धयद् बृहस्पतिः

विश्वास-प्रस्तुतिः ...{Loading}...

यथेन्द्रायासुरान्
अरन्धयद् बृहस्पतिः ।
एवा त्वम् अग्ने अश्वत्थान्
अमून् मह्यम् इहानय
प्र (…) ॥ +++(see 9.28.1e)+++

०५ अहं ते मन

विश्वास-प्रस्तुतिः ...{Loading}...

अहं ते मन आ दद
ऐडेन सह मेदिना ।
देवा मनुष्या गन्धर्वास्
ते मह्यं रन्धयन्तु त्वा
प्र (…) ॥ +++(see 9.28.1e)+++

०६ यथा अश्वत्थस्य पर्णानि

विश्वास-प्रस्तुतिः ...{Loading}...

यथा अश्वत्थस्य पर्णानि
नेलयन्ति कदा चन ।
एवासौ मम कामेन
माव स्वाप्सीत् कदा चन
प्र पतातो ममाध्या ॥

०७ कुष्ठं तपन्ति मरुतः

विश्वास-प्रस्तुतिः ...{Loading}...

कुष्ठं तपन्ति मरुतः स्वाध्यं
दूर-आजानं स्वरयन्तो अर्चिषा । +++(Bhatt. svādhyandura ājānaṃ)+++
यथा न स्वपात् कतमच् चनाहर्
ऐव गच्छान् ममाध्या ॥