०२८

सर्वाष् टीकाः ...{Loading}...

०१ इमास् तपन्तु त्वौषधीर्

विश्वास-प्रस्तुतिः ...{Loading}...

इमास् तपन्तु त्वौषधीर्
ओषधीनाम् अयं रसः ।
अश्वत्थस् ते ऽयं हृद्य्
अग्निर् भूतो व्य् ओषतु
प्र पतातो ममाध्या ॥

०२ यथा सूत्रं लाक्षारक्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सूत्रं लाक्षारक्तम्
आज्येनानुषिच्यते ।
एवा ते कामः सर्पत्व्
अन्तर् अस्थसु मज्जसु
प्र (…) ॥ +++(see 1e)+++

०३ यथा कुष्ठः प्रयस्यति

विश्वास-प्रस्तुतिः ...{Loading}...

यथा कुष्ठः प्रयस्यति
यथा दह्यते अर्चिषा ।
एवा ते दह्यतां मनः
प्र (…) ॥ +++(see 1e)+++

०४ पुंसः कुष्ठात् प्र

विश्वास-प्रस्तुतिः ...{Loading}...

पुंसः कुष्ठात् प्र क्षरति
स्तोक आधीभिर् आभृतः । +++(Bhatt. ādhibhir)+++
स ते हृदये वि वर्ततां
प्र (…) ॥ +++(see 1e)+++

०५ एष ते स्तोको

विश्वास-प्रस्तुतिः ...{Loading}...

एष ते स्तोको हृदयं
दिग्धेवेषुः प्र पद्यताम् ।
अस्त्राखणं यथेष्वा
कामो विध्यतु त्वा मम
प्र (…) ॥ +++(see 1e)+++

०६ हरित एधि शुष्काक्षः

विश्वास-प्रस्तुतिः ...{Loading}...

हरित एधि शुष्काक्षः
सर्वदा हृदयामयि ।
स्त्रियस् ते अन्या मा छान्त्सुर् +++(Bhatt. mā chāñchur)+++
अथो त्वाशाभि शोचतु
प्र (…) ॥ +++(see 1e)+++

०७ शोचीमद् अस्तु ते

विश्वास-प्रस्तुतिः ...{Loading}...

शोचीमद् अस्तु ते शयनं
शोचीमद् उपवेशनम् ।
शोचीमद् अस्तु ते मनो
यथात्र न रमासा
अर्वाची न मनास
प्र (…) ॥ +++(see 1e)+++

०८ न रमासै सङ्गतेषु

विश्वास-प्रस्तुतिः ...{Loading}...

न रमासै सङ्गतेषु
शयानं त्वाभि शोचतु ।
स्तोकस् त्वोत्तुद उत् तुदात्
प्र (…) ॥ +++(see 1e)+++

०९ अन्तर् दहति चर्मणो

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तर् दहति चर्मणो
अस्थिमांसेभिर् आभृतम् ।
सर्वान् यज्ञः प्र याशयाद्
ऐड आधीभिस् तव
प्र (…) ॥ +++(see 1e)+++

१० हृदये ऽधि सम्

विश्वास-प्रस्तुतिः ...{Loading}...

हृदये ऽधि सम् इध्यतां
स्वैर् मांसेभिर् एष ते ।
अग्निः कामस्य यो महान्
स मह्यं रन्धयाति त्वा +++(Bhatt. randhayanti)+++
प्र (…) ॥ +++(see 1e)+++