सर्वाष् टीकाः ...{Loading}...
०१ उच्चैर् घोषो दुन्दुभिः
विश्वास-प्रस्तुतिः ...{Loading}...
उच्चैर् घोषो दुन्दुभिः सत्वनायं
वानस्पत्यः संभृत उस्रियाभिः ।
वाचं क्षणुवानो दमयन् सपत्नान्
सिंह इव ज्येष्यन्न् अभि तंस्तनीभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उच्चैर् घोषो दुन्दुभिः सत्वनायं
वानस्पत्यः संभृत उस्रियाभिः ।
वाचं क्षणुवानो दमयन् सपत्नान्
सिंह इव ज्येष्यन्न् अभि तंस्तनीभिः ॥
सर्वाष् टीकाः ...{Loading}...
०२ सिंह इवास्तानीद् द्रुवयो
विश्वास-प्रस्तुतिः ...{Loading}...
सिंह इवास्तानीद् द्रुवयो विबद्धो
ऽभिक्रन्दन्न् ऋषभो वाशिताम् इव ।
वृषा त्वं वध्रयस् ते सपत्ना
ऐन्द्रस् ते शुष्मो अभिमातिषाहः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सिंह इवास्तानीद् द्रुवयो विबद्धो
ऽभिक्रन्दन्न् ऋषभो वाशिताम् इव ।
वृषा त्वं वध्रयस् ते सपत्ना
ऐन्द्रस् ते शुष्मो अभिमातिषाहः ॥
सर्वाष् टीकाः ...{Loading}...
०३ सञ्जयन् पृतना ऊर्ध्वमायुर्
विश्वास-प्रस्तुतिः ...{Loading}...
संजयन् पृतना ऊर्ध्वमायुर्
गृह्या गृह्णानो बहुधा वि चक्ष्व ।
दैवीं वाचम् आ हुर गुरस्व वेधाः
शत्रूणाम् उप भरस्व वेदः ॥
मूलम् ...{Loading}...
मूलम् (GR)
संजयन् पृतना ऊर्ध्वमायुर्
गृह्या गृह्णानो बहुधा वि चक्ष्व ।
दैवीं वाचम् आ हुर गुरस्व वेधाः
शत्रूणाम् उप भरस्व वेदः ॥
सर्वाष् टीकाः ...{Loading}...
०४ वृषेव यूथं सहसो
विश्वास-प्रस्तुतिः ...{Loading}...
वृषेव यूथं सहसो विदानो
गव्यन्न् अभि रुव संधनाजित् ।
शुचा विध्य हृदयं परेषां
हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृषेव यूथं सहसो विदानो
गव्यन्न् अभि रुव संधनाजित् ।
शुचा विध्य हृदयं परेषां
हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥
सर्वाष् टीकाः ...{Loading}...
०५ दुन्दुभेर् वाचं प्रयताम्
विश्वास-प्रस्तुतिः ...{Loading}...
दुन्दुभेर् वाचं प्रयतां वदन्तीम्
आशृण्वती नाथिता घोषबुद्धा ।
नारी पुत्रान् धावतु हस्तगृह्य-
-अमित्री भीता समरे वधाना ॥
मूलम् ...{Loading}...
मूलम् (GR)
दुन्दुभेर् वाचं प्रयतां वदन्तीम्
आशृण्वती नाथिता घोषबुद्धा ।
नारी पुत्रान् धावतु हस्तगृह्य-
-अमित्री भीता समरे वधाना ॥
सर्वाष् टीकाः ...{Loading}...
०६ धीभिः कृतः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
धीभिः कृतः प्र भरस्व वाचम्
उद् धर्षय सत्वनाम् आयुधानि ।
अमित्रसेनाम् अभिजञ्जभानो
द्युमद् वद दुन्दुभे सूनृतावत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
धीभिः कृतः प्र भरस्व वाचम्
उद् धर्षय सत्वनाम् आयुधानि ।
अमित्रसेनाम् अभिजञ्जभानो
द्युमद् वद दुन्दुभे सूनृतावत् ॥
सर्वाष् टीकाः ...{Loading}...
०७ पूर्वो दुन्दुभे वि
विश्वास-प्रस्तुतिः ...{Loading}...
पूर्वो दुन्दुभे वि षहस्व शत्रून्
भूम्याः पृष्ठे वद बहु रोचमानः ।
इन्द्रमेदी सत्वनः सं ह्वयस्व
मित्रैर् अमित्रान् अव जङ्घनीहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
पूर्वो दुन्दुभे वि षहस्व शत्रून्
भूम्याः पृष्ठे वद बहु रोचमानः ।
इन्द्रमेदी सत्वनः सं ह्वयस्व
मित्रैर् अमित्रान् अव जङ्घनीहि ॥
सर्वाष् टीकाः ...{Loading}...
०८ अन्तरेमे नभसी घोषो
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तरेमे नभसी घोषो अस्तु
पृथक् ते ध्वनयो यन्तु शीभम् ।
अभि क्रन्द स्तनयोत्पिपानां
श्लोककृन् मित्रतूर्याय स्वर्धि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तरेमे नभसी घोषो अस्तु
पृथक् ते ध्वनयो यन्तु शीभम् ।
अभि क्रन्द स्तनयोत्पिपानां
श्लोककृन् मित्रतूर्याय स्वर्धि ॥
सर्वाष् टीकाः ...{Loading}...
०९ सङ्क्रन्दनः प्रवेदो धृष्णुषेणः
विश्वास-प्रस्तुतिः ...{Loading}...
संक्रन्दनः प्रवेदो धृष्णुषेणः
प्रवेदकृद् बहुधा ग्रामघोषी ।
श्रेयो वन्वानो वयुनानि विद्वान्
कीर्तिं बहुभ्यो वि भज द्विराजे ॥
मूलम् ...{Loading}...
मूलम् (GR)
संक्रन्दनः प्रवेदो धृष्णुषेणः
प्रवेदकृद् बहुधा ग्रामघोषी ।
श्रेयो वन्वानो वयुनानि विद्वान्
कीर्तिं बहुभ्यो वि भज द्विराजे ॥
सर्वाष् टीकाः ...{Loading}...
१० श्रेयःकेतो वसुजित् सहीयान्
विश्वास-प्रस्तुतिः ...{Loading}...
श्रेयःकेतो वसुजित् सहीयान्
मित्रं दधानस् त्विषितो विपश्चित् ।
अंशून् इव ग्रावाधिषवणे अद्रिर्
गव्यं दुन्दुभे अधि नृत्य वेदः ॥
मूलम् ...{Loading}...
मूलम् (GR)
श्रेयःकेतो वसुजित् सहीयान्
मित्रं दधानस् त्विषितो विपश्चित् ।
अंशून् इव ग्रावाधिषवणे अद्रिर्
गव्यं दुन्दुभे अधि नृत्य वेदः ॥
सर्वाष् टीकाः ...{Loading}...
११ शत्रूषाण् नीषाड् अभिमातिषाहो
विश्वास-प्रस्तुतिः ...{Loading}...
शत्रूषाण् नीषाड् अभिमातिषाहो
गवेषणः सहमान उद्भित् ।
वाग्वी मन्त्रं प्र जनयस्व वाजिन्
साङ्ग्रामजित्यायेषम् उद् वदेह ॥
मूलम् ...{Loading}...
मूलम् (GR)
शत्रूषाण् नीषाड् अभिमातिषाहो
गवेषणः सहमान उद्भित् ।
वाग्वी मन्त्रं प्र जनयस्व वाजिन्
साङ्ग्रामजित्यायेषम् उद् वदेह ॥
सर्वाष् टीकाः ...{Loading}...
१२ अच्युतच्युत् समदो गमिष्ठो
विश्वास-प्रस्तुतिः ...{Loading}...
अच्युतच्युत् समदो गमिष्ठो
मृधो जेता पृतनाषाड् अयोध्यः ।
इन्द्रेण क्ल्̥प्तो विदथा निचिक्यद्
धृद्द्योतनो द्विषतां याहि शीभम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अच्युतच्युत् समदो गमिष्ठो
मृधो जेता पृतनाषाड् अयोध्यः ।
इन्द्रेण क्ल्̥प्तो विदथा निचिक्यद्
धृद्द्योतनो द्विषतां याहि शीभम् ॥