०१९

सर्वाष् टीकाः ...{Loading}...

०१ ब्रह्मगवी पच्यमाना यावत्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मगवी पच्यमाना
यावत् साभि विजङ्गहे ।
तेजो राष्ट्रस्य निर् हन्ति
न वीरो जायते पुमान् ॥

०२ आक्रमणेन वै देवा

विश्वास-प्रस्तुतिः ...{Loading}...

आक्रमणेन वै देवा
द्विषन्तो घ्नन्ति पूरुषम् ।
स्तेयादं ब्रह्मज्यं
क्षेत्रे चानृतवादिनम् ॥

०३ विषम् एतद् देवकृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

विषम् एतद् देवकृतं
राजा वरुणो अब्रवीत् ।
न ब्राह्मणस्य गां जग्ध्वा
राष्ट्रे जागार कश् चन ॥

०४ तद् वै राष्ट्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

तद् वै राष्ट्रम् आ स्रवति
भिन्नां नावम् इवोदकम् ।
ब्राह्मणो यत्र जीयते
तद् राष्ट्रं हन्ति दुच्छुना ॥

०५ एकशतं वै जनता

विश्वास-प्रस्तुतिः ...{Loading}...

एकशतं वै जनता
भूमिर् या व्यधूनुत ।
प्रजां हिंसित्वा ब्राह्मणीम्
असंभव्यं पराभवन् ॥

०६ याम् उदाजन्न् ऋषयो

विश्वास-प्रस्तुतिः ...{Loading}...

याम् उदाजन्न् ऋषयो मनीषिणः +++(Bhatt. and Kim 2014, 363 udājan)+++
श्रमसातां बृहतीं देवजूताम् ।
सा ब्रह्मज्यं पचति पच्यमाना
राष्ट्रम् अस्य बृहती यच् च वर्चः ॥

०७ वाचा ब्राह्मणम् ऋच्छति

विश्वास-प्रस्तुतिः ...{Loading}...

वाचा ब्राह्मणम् ऋच्छति
जामि हन्त्य् अचित्त्या । +++(Bhatt. acittyā)+++
मित्राय सत्ये द्रुह्यति
यं देवा घ्नन्ति पूरुषम् ॥