सर्वाष् टीकाः ...{Loading}...
०१ इषुर् इव दिग्धा
विश्वास-प्रस्तुतिः ...{Loading}...
इषुर् इव दिग्धा नृपते
पृदाकूर् इव गोपते ।
सा ब्राह्मणस्येषुर् दिग्धा
तया विध्यति पीयकः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इषुर् इव दिग्धा नृपते
पृदाकूर् इव गोपते ।
सा ब्राह्मणस्येषुर् दिग्धा
तया विध्यति पीयकः ॥
सर्वाष् टीकाः ...{Loading}...
०२ तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो
विश्वास-प्रस्तुतिः ...{Loading}...
तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो
याम् अस्यन्ति शरव्यां न सा मृषा ।
अनुहाय तपसा मन्युना चोत
दूराद् अव भिन्दन्ति ते तया ॥
मूलम् ...{Loading}...
मूलम् (GR)
तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो
याम् अस्यन्ति शरव्यां न सा मृषा ।
अनुहाय तपसा मन्युना चोत
दूराद् अव भिन्दन्ति ते तया ॥
सर्वाष् टीकाः ...{Loading}...
०३ जिह्वा ज्या भवति
विश्वास-प्रस्तुतिः ...{Loading}...
जिह्वा ज्या भवति कुल्मलं वाङ्
नाडीका दन्तास् तपसा सुदिग्धाः ।
तेभिर् ब्रह्मा विध्यति देवपीयून्
हृद्बलैर् धनुर्भिर् देवजूतैः ॥
मूलम् ...{Loading}...
मूलम् (GR)
जिह्वा ज्या भवति कुल्मलं वाङ्
नाडीका दन्तास् तपसा सुदिग्धाः ।
तेभिर् ब्रह्मा विध्यति देवपीयून्
हृद्बलैर् धनुर्भिर् देवजूतैः ॥
सर्वाष् टीकाः ...{Loading}...
०४ ये ब्राह्मणं हिंसितारस्
विश्वास-प्रस्तुतिः ...{Loading}...
ये ब्राह्मणं हिंसितारस् तपस्विनं
मनीषिणं ब्रह्मचर्येण श्रान्तम् ।
अवर्तिमद् भविता राष्ट्रम् एषां
तमसीव निहितं नानु वेत्ताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ब्राह्मणं हिंसितारस् तपस्विनं
मनीषिणं ब्रह्मचर्येण श्रान्तम् ।
अवर्तिमद् भविता राष्ट्रम् एषां
तमसीव निहितं नानु वेत्ताः ॥
सर्वाष् टीकाः ...{Loading}...
०५ ये सहस्रम् अराजन्न्
विश्वास-प्रस्तुतिः ...{Loading}...
ये सहस्रम् अराजन्न्
आसन् दशशता उत ।
ते ब्राह्मणस्य गां जग्ध्वा
वैतहव्याः पराभवन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये सहस्रम् अराजन्न्
आसन् दशशता उत ।
ते ब्राह्मणस्य गां जग्ध्वा
वैतहव्याः पराभवन् ॥
सर्वाष् टीकाः ...{Loading}...
०६ गौर् एव तान्
विश्वास-प्रस्तुतिः ...{Loading}...
गौर् एव तान् हन्यमाना
वैतहव्याꣳ अवातिरत् ।
ये केशर प्राबन्धायाश्
चरमाजाम् अपेचिरन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
गौर् एव तान् हन्यमाना
वैतहव्याꣳ अवातिरत् ।
ये केशर प्राबन्धायाश्
चरमाजाम् अपेचिरन् ॥
सर्वाष् टीकाः ...{Loading}...
०७ अतिमात्रा अजायन्त नोद्
विश्वास-प्रस्तुतिः ...{Loading}...
अतिमात्रा अजायन्त
नोद् इव दिवम् अस्पृशन् ।
भृगुं हिंसित्वा माहीना
असंभव्यं पराभवन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अतिमात्रा अजायन्त
नोद् इव दिवम् अस्पृशन् ।
भृगुं हिंसित्वा माहीना
असंभव्यं पराभवन् ॥
सर्वाष् टीकाः ...{Loading}...
०८ ये बृहत्सामानम् आङ्गिरसम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये बृहत्सामानम् आङ्गिरसम्
आर्पयन् ब्राह्मणं जनाः ।
येत्वस् तेषाम् उभयादन्न्
अविस् तोकान्य् आवयत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये बृहत्सामानम् आङ्गिरसम्
आर्पयन् ब्राह्मणं जनाः ।
येत्वस् तेषाम् उभयादन्न्
अविस् तोकान्य् आवयत् ॥
सर्वाष् टीकाः ...{Loading}...
०९ ये ब्राह्मणं प्रत्यष्ठीवन्
विश्वास-प्रस्तुतिः ...{Loading}...
ये ब्राह्मणं प्रत्यष्ठीवन्
ये चास्मिच् छुक्लम् ईषिरे ।
अस्नस् ते मध्ये कुल्यायाः
केशान् खादन्त आसते ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ब्राह्मणं प्रत्यष्ठीवन्
ये चास्मिच् छुक्लम् ईषिरे ।
अस्नस् ते मध्ये कुल्यायाः
केशान् खादन्त आसते ॥
सर्वाष् टीकाः ...{Loading}...
१० अष्टापदी चतुरक्षी चतुःश्रोत्रा
विश्वास-प्रस्तुतिः ...{Loading}...
अष्टापदी चतुरक्षी
चतुःश्रोत्रा चतुर्हनुः ।
द्विजिह्वा द्विप्राणा भूत्वा
सा राष्ट्रम् अव धूनुते ॥
मूलम् ...{Loading}...
मूलम् (GR)
अष्टापदी चतुरक्षी
चतुःश्रोत्रा चतुर्हनुः ।
द्विजिह्वा द्विप्राणा भूत्वा
सा राष्ट्रम् अव धूनुते ॥