सर्वाष् टीकाः ...{Loading}...
०१ नैतां ते देवा
विश्वास-प्रस्तुतिः ...{Loading}...
नैतां ते देवा अददुस्
तुभ्यं नृपते अत्तवे ।
मा ब्राह्मणस्य राजन्य
गां जिघत्सो अनाद्याम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
नैतां ते देवा अददुस्
तुभ्यं नृपते अत्तवे ।
मा ब्राह्मणस्य राजन्य
गां जिघत्सो अनाद्याम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अक्षद्रुग्धो राजन्यः पाप
विश्वास-प्रस्तुतिः ...{Loading}...
अक्षद्रुग्धो राजन्यः
पाप आत्मपराजितः ।
स ब्राह्मणस्य गाम् अद्याद्
अद्य जीवानि मा श्वः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अक्षद्रुग्धो राजन्यः
पाप आत्मपराजितः ।
स ब्राह्मणस्य गाम् अद्याद्
अद्य जीवानि मा श्वः ॥
सर्वाष् टीकाः ...{Loading}...
०३ निर् वै क्षत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
निर् वै क्षत्रं नयति हन्ति वर्चो
ऽग्निर् इवारब्धः प्र दुनोति राष्ट्रम् ।
यो ब्राह्मणं देवबन्धुं हिनस्ति
न स पितॄणाम् अप्य् एति लोकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
निर् वै क्षत्रं नयति हन्ति वर्चो
ऽग्निर् इवारब्धः प्र दुनोति राष्ट्रम् ।
यो ब्राह्मणं देवबन्धुं हिनस्ति
न स पितॄणाम् अप्य् एति लोकम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ देवपीयुश् चरति मर्त्येषु
विश्वास-प्रस्तुतिः ...{Loading}...
देवपीयुश् चरति मर्त्येषु
गरगीर्णो भवत्य् अस्थिभूयान् ।
यो ब्राह्मणं मन्यते अन्नम् एव
स विषस्य पिबति तैमातस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवपीयुश् चरति मर्त्येषु
गरगीर्णो भवत्य् अस्थिभूयान् ।
यो ब्राह्मणं मन्यते अन्नम् एव
स विषस्य पिबति तैमातस्य ॥
सर्वाष् टीकाः ...{Loading}...
०५ विषं स पिबति
विश्वास-प्रस्तुतिः ...{Loading}...
विषं स पिबति तैमातं
पश्यन्न् अग्निं प्र सीदति ।
यो ब्राह्मणस्य सद् धनम्
अभि नारद मन्यते ॥
मूलम् ...{Loading}...
मूलम् (GR)
विषं स पिबति तैमातं
पश्यन्न् अग्निं प्र सीदति ।
यो ब्राह्मणस्य सद् धनम्
अभि नारद मन्यते ॥
सर्वाष् टीकाः ...{Loading}...
०६ शतापाष्ठां नि गिरति
विश्वास-प्रस्तुतिः ...{Loading}...
शतापाष्ठां नि गिरति
तां न शक्नोति निष्खिदम् ।
अन्नं यो ब्रह्मणां मल्वः (emend. Kim 2014, 346; Bhatt. manyaḥ)
स्वाद्व् अद्मीति मन्यते ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतापाष्ठां नि गिरति
तां न शक्नोति निष्खिदम् ।
अन्नं यो ब्रह्मणां मल्वः (emend. Kim 2014, 346; Bhatt. manyaḥ)
स्वाद्व् अद्मीति मन्यते ॥
सर्वाष् टीकाः ...{Loading}...
०७ य एनां हन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
य एनां हन्ति मृदु मन्यमानो
देवपीयुर् धनकामो न चित्तात् ।
सं तस्येन्द्रो हृदये अग्निम् इन्ध
उभे एनं द्युष्टो नभसी चरन्तम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
य एनां हन्ति मृदु मन्यमानो
देवपीयुर् धनकामो न चित्तात् ।
सं तस्येन्द्रो हृदये अग्निम् इन्ध
उभे एनं द्युष्टो नभसी चरन्तम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ न ब्राह्मणो हिंसितवा
विश्वास-प्रस्तुतिः ...{Loading}...
न ब्राह्मणो हिंसितवा
अग्नेः प्रियतमा तनूः ।
सोमो ह्य् अस्य दायाद
इन्द्रो अस्याभिशस्तिपाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
न ब्राह्मणो हिंसितवा
अग्नेः प्रियतमा तनूः ।
सोमो ह्य् अस्य दायाद
इन्द्रो अस्याभिशस्तिपाः ॥
सर्वाष् टीकाः ...{Loading}...
०९ अग्निर् वै नः
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निर् वै नः पदवायः
सोमो दायाद उच्यते ।
जेता अभिशस्तेन्द्रस्
तत् सत्यं देवसंहितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निर् वै नः पदवायः
सोमो दायाद उच्यते ।
जेता अभिशस्तेन्द्रस्
तत् सत्यं देवसंहितम् ॥
सर्वाष् टीकाः ...{Loading}...
१० आविष्टिताघविषा पृदाकूर् इव
विश्वास-प्रस्तुतिः ...{Loading}...
आविष्टिताघविषा
पृदाकूर् इव चर्मणा ।
सा ब्राह्मणस्य राजन्य
तृष्टैषा गौर् अनाद्या ॥
मूलम् ...{Loading}...
मूलम् (GR)
आविष्टिताघविषा
पृदाकूर् इव चर्मणा ।
सा ब्राह्मणस्य राजन्य
तृष्टैषा गौर् अनाद्या ॥