०१६

सर्वाष् टीकाः ...{Loading}...

०१ न तत्र धेनुर्

विश्वास-प्रस्तुतिः ...{Loading}...

न तत्र धेनुर् दुहे
नानड्वान् सहते धुरम् ।
विजानिर् यत्र ब्राह्मणो
रात्रिं वसति पापया ॥

०२ न वर्षं मैत्रावरुणम्

विश्वास-प्रस्तुतिः ...{Loading}...

न वर्षं मैत्रावरुणं
ब्रह्मज्यम् अभि वर्षति ।
नास्मै समितिः कल्पते
न मित्रं नयते वशम् ॥

०३ असृङ्मती चरति ब्रह्मजाया

विश्वास-प्रस्तुतिः ...{Loading}...

असृङ्मती चरति ब्रह्मजाया
आशा लिम्पन्ती प्रदिशश् चतस्रः ।
यः क्षत्रियः पुनर् एनां ददाति
स दिवो धारां धयति प्रपीनाम् ॥

०४ यो ऽपुनर्दाय ब्रह्मजायाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो ऽपुनर्दाय ब्रह्मजायां
राजा तल्पे निपद्यते ।
दुर्योणा अस्मा ओषधीर्
याः काश् चाभि विपश्यति ॥

०५ विषम् अश्नात्य् अपाम्

विश्वास-प्रस्तुतिः ...{Loading}...

विषम् अश्नात्य् अपां
विषम् अश्नाति वीरुधाम् ।
यो ब्रह्मजायां न पुनर् ददाति
तस्मै देवाः सुदिहं दिग्धम् अस्याम् ॥ +++(read asyān)+++

०६ उद्यत् पतयो दश

विश्वास-प्रस्तुतिः ...{Loading}...

उद्यत् पतयो दश
स्त्रियाः पूर्वे अब्राह्मणाः ।
ब्रह्मा चेद् धस्तम् अग्रहीत्
स एव पतिर् एकधा ॥

०७ ब्राह्मण एव पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्राह्मण एव पतिर्
न राजा नोत वैश्यः ।
तत् सूर्यः प्रब्रुवन्न् एति
पञ्चभ्यो मानवेभ्यः ॥