०१५

सर्वाष् टीकाः ...{Loading}...

०१ ते ऽवदन् प्रथमा

विश्वास-प्रस्तुतिः ...{Loading}...

ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे
ऽकूपारः सलिलो मातरिश्वा ।
वीडुहरस् तप उग्रं मयोभुव
आपो देवीः प्रथमजा ऋतस्य ॥

०२ सोमो राजा प्रथमो

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो राजा प्रथमो ब्रह्मजायां
पुनः प्रायच्छद् अहृणीयमानः ।
अन्वर्तिता वरुणो मित्र आसीद्
अग्निर् होता हस्तगृह्या निनाय ॥

०३ हस्तेनेव ग्राह्य आधिर्

विश्वास-प्रस्तुतिः ...{Loading}...

हस्तेनेव ग्राह्य आधिर् अस्या
ब्रह्मजायेति चेद् अवोचत् ।
न दूताय प्रह्ये तस्थ एषा
तथा राष्ट्रं गुपितं क्षत्रियस्य ॥

०४ याम् आहुस् तारकाम्

विश्वास-प्रस्तुतिः ...{Loading}...

याम् आहुस् तारकां विकेशीं
दुच्छुनां ग्रामम् अवपद्यमानाम् ।
सा ब्रह्मजाया प्र दुनोति राष्ट्रं
यत्र प्रापादि शशः कल्कुषीमान् ॥

०५ ब्रह्मचारी चरति वेविषद्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मचारी चरति वेविषद् विषः
स देवानां भवत्य् एकम् अङ्गम् ।
तेन जायाम् अन्व् अविन्दद् बृहस्पतिः
सोमेन नीतां जुह्वं न देवाः ॥

०६ देवा एतस्याम् अवदन्त

विश्वास-प्रस्तुतिः ...{Loading}...

देवा एतस्याम् अवदन्त पूर्वे
सप्तर्षयस् तपसे ये निषेदुः ।
भीमा जाया ब्राह्मणस्यापनीता
दुर्धां दधाति परमे व्योमन् ॥

०७ ये गर्भा अवपद्यन्ते

विश्वास-प्रस्तुतिः ...{Loading}...

ये गर्भा अवपद्यन्ते
जगद् यच् चापलुप्यते ।
वीरा ये हन्यन्ते मिथो
ब्रह्मजाया हिनस्ति तान् ॥

०८ सर्वे गर्भाः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वे गर्भाः प्र व्यथन्ते
कुमारा दशमास्याः ।
यस्मिन् राष्ट्रे निरुध्यते
ब्रह्मजाया अचित्त्या ॥ +++(Bhatt. acittyā)+++

०९ पुनर् वै देवा

विश्वास-प्रस्तुतिः ...{Loading}...

पुनर् वै देवा अददुः
पुनर् मनुष्या उत ।
राजानः सत्यं कृण्वन्तो
ब्रह्मजायां पुनर् ददुः ॥

१० पुनर्दाय ब्रह्मजायां कृत्वी

विश्वास-प्रस्तुतिः ...{Loading}...

पुनर्दाय ब्रह्मजायां +++(Bhatt. yo punardāya; see Kim 2014, 334)+++
कृत्वी देवैर् निकिल्बिषम् ।
ऊर्जं पृथिव्या भक्त्वा-
-उरुगायम् उपासते ॥