०१४

सर्वाष् टीकाः ...{Loading}...

०१ अयम् अग्निर् उपसद्य

विश्वास-प्रस्तुतिः ...{Loading}...

अयम् अग्निर् उपसद्य
इह सूर्य उद् एतु ते ।
उद् एहि मृत्योर् गम्भीरात्
कृच्छ्राच् चित् तमसस् परि ॥

०२ नमो यमाय नमो

विश्वास-प्रस्तुतिः ...{Loading}...

नमो यमाय नमो ऽस्तु मृत्यवे
नमः पितृभ्य उत ये नयन्ते ।
उत्पारणस्य यो वेद
तम् अग्निं तत् पुरो दधे ॥

०३ ऐतु प्राण ऐतु

विश्वास-प्रस्तुतिः ...{Loading}...

ऐतु प्राण ऐतु मन
ऐतु चक्षुर् अथो बलम् ।
शरीरम् अस्य सं विदां
तत् पद्भ्यां प्रति तिष्ठतु ॥

०४ प्राणेनाग्ने चक्षुषा सम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राणेनाग्ने चक्षुषा सं सृजेमं
सम् ईरय तन्वा सं बलेन ।
वेत्थामृतस्य मा मृत
मो षु भूमिगृहो भुवत् ॥

०५ मा ते प्राण

विश्वास-प्रस्तुतिः ...{Loading}...

मा ते प्राण उप दसन्
मापानो अपि धायि ते ।
सूर्यस् त्वाधिपतिर् मृत्योर्
उदायच्छाति रश्मिभिः ॥

०६ इयम् अन्तर् वदत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

इयम् अन्तर् वदत्य् उग्रा
जिह्वा पनिष्पदा ।
तया रोगान् वि नयामः
शतं रोपीश् च तक्मनः ॥

०७ अयं लोकः प्रियतमो

विश्वास-प्रस्तुतिः ...{Loading}...

अयं लोकः प्रियतमो
देवानाम् अपराजितः ।
यस्मै त्वम् इह जज्ञिषे
दिष्टः पुरुष मृत्यवे ।
तस्मै त्वानु ह्वयामसि
मा पुरा जरसो मृथाः ॥