०१३

सर्वाष् टीकाः ...{Loading}...

०१ आवतस् ते परावतः

विश्वास-प्रस्तुतिः ...{Loading}...

आवतस् ते परावतः
परावतस् त आवतः ।
इहैव भव मा नु गा
मा पूर्वान् अनु गा गतान्
असुं बध्नामि ते दृढम् ॥

०२ यत् त्वाभिचेरुः पुरुषः

विश्वास-प्रस्तुतिः ...{Loading}...

यत् त्वाभिचेरुः पुरुषः
सो यद् अरुणो जनः ।
उन्मोचन प्रमोचने
उभे वाचा वदामि ते ॥

०३ यद् दुद्रोहिथ शेपिषे

विश्वास-प्रस्तुतिः ...{Loading}...

यद् दुद्रोहिथ शेपिषे
स्त्रियै पुंसे अचित्त्या । +++(Bhatt. acittyā)+++
(…) ॥ +++(see 2cd)+++

०४ यद् एनसो मातृकृताच्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् एनसो मातृकृताच्
छेषे पितृकृताद् उत ।
उन्मोचन प्रमोचने
उभे वाचा वदामि ते ॥

०५ यत् ते माता

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते माता यत् ते पिता
जामिर् भ्राता च सर्जतः ।
प्रत्यक् सेवस्य भेषजं
जरदष्टिं कृणोमि त्वा ॥

०६ एह्य् एहि पुनर्

विश्वास-प्रस्तुतिः ...{Loading}...

एह्य् एहि पुनर् एहि
सर्वेण मनसा सह ।
दूतौ यमस्य मानु गा
अधि जीवपुरा इहि ॥

०७ अनुहूतः पुनर् एहि

विश्वास-प्रस्तुतिः ...{Loading}...

अनुहूतः पुनर् एहि
विद्वान् उदयनं पथः ।
आरोहणम् आक्रमणं
जीवतोजीवतो ऽयनम् ॥

०८ मा बिभेर् न

विश्वास-प्रस्तुतिः ...{Loading}...

मा बिभेर् न मरिष्यसि
जरदष्टिर् भविष्यसि ।
निर् अवोचम् अहं यक्ष्मम्
अङ्गेभ्यो अङ्गज्वरं तव ॥

०९ शीर्षरोगो अङ्गरोगो यश्

विश्वास-प्रस्तुतिः ...{Loading}...

शीर्षरोगो अङ्गरोगो
यश् च ते हृदयामयः ।
यक्ष्मः श्येन इव प्रापप्तद्
वाचा नुत्तः परस्तरम् ॥

१० ऋषी बोधप्रतीबोधाव् अस्वप्नो

विश्वास-प्रस्तुतिः ...{Loading}...

ऋषी बोधप्रतीबोधाव्
अस्वप्नो यश् च जागृविः ।
ते ते प्राणस्य गोप्तारो
दिवा नक्तं च जाग्रतु ॥