०१२

सर्वाष् टीकाः ...{Loading}...

०१ समानम् अर्थं पर्यन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

समानम् अर्थं पर्यन्ति देवा
रूपंरूपं तपसा वर्धमानाः ।
यद् आदित्यम् अभिसंविशन्ति
तद् एकं रूपम् अमृतत्वम् एषाम् ॥

०२ देवो देवेभिर् आ

विश्वास-प्रस्तुतिः ...{Loading}...

देवो देवेभिर् आ गमन्
महान् नो अतिथिष् पिता ।
स प्रैति जातवेदसम्
एकरूपो गुहा भवन् ॥

०३ आतिथ्यम् अग्निं निर्

विश्वास-प्रस्तुतिः ...{Loading}...

आतिथ्यम् अग्निं निर् अपप्तद् एव
उभयेभिः पितृभिः संविदानः ।
महान् नु मर्य उप भक्षम् आगन् +++(see Kim 2014, 305; Bhatt. martya, nāgan)+++
संगृभ्यादित्या(न्) न्य् अविष्ट वह्निः ॥

०४ त आ विशन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

त आ विशन्ति पुरुषं शयानं
प्राणा निविष्टा न शसन्त्य् एनम् ।
ते नो रात्र्या सुमनस्यमाना
अह्ना रक्षन्त्य् अहृणीयमानाः ॥

०५ पशुभ्यो नः पशुपते

विश्वास-प्रस्तुतिः ...{Loading}...

पशुभ्यो नः पशुपते मृड
सर्व सं वृह आयताम् ।
मा नः प्राणेषु रीरिषः ॥

०६ वायुः सत्ये अधिश्रितः

विश्वास-प्रस्तुतिः ...{Loading}...

वायुः सत्ये अधिश्रितः
प्राणापानाव् अभिरक्षन् ।
सं प्रजा ऐरयद् इमाः ॥

०७ देवा यत्ताः प्रजापताव्

विश्वास-प्रस्तुतिः ...{Loading}...

देवा यत्ताः प्रजापताव्
आदित्याश् च येमिरे ।
पूषा रश्मिष्व् आयत
आदित्यो विष्णुर् आक्रमे
स रोहं दिवि रोहति ॥

०८ प्रजाद्देवाः सवितुः सवे

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजाद्देवाः सवितुः सवे
त्वष्टा रूपाणि पिंशतु ।
अञ्जन्तौ मधुना पयो
अतन्द्रं यातम् अश्विना ॥

०९ विश्वे देवाः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे देवाः प्र यातन-
-आदित्यासः सजोषसः ।
पुरः पश्चात् स्वस्तये ॥

१० ब्रह्म वर्म बृहस्पतिः

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म वर्म बृहस्पतिः
संगवो नो ऽभि रक्षतु ।
देवो देवैः पुरोहितः ॥

११ मरुतो वृष्ट्या न

विश्वास-प्रस्तुतिः ...{Loading}...

मरुतो वृष्ट्या न आ गत
सत्यधर्माण ऊतये ।
अपराह्नेषु जिन्वत ॥

१२ इन्द्रो राजा दिवस्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो राजा दिवस् पतिर्
अहर् विमाय तिष्ठति ।
स न इमाः कल्पयाद् दिशः ॥