०११

सर्वाष् टीकाः ...{Loading}...

०१ मातरिश्वा सम् अभरद्

विश्वास-प्रस्तुतिः ...{Loading}...

मातरिश्वा सम् अभरद्
धाता सम् अदधात् परुः ।
इन्द्राग्नी अभ्य् अरक्षतां
त्वष्टा नाभिम् अकल्पयत् ॥

०२ भवस् त्वा अभ्य्

विश्वास-प्रस्तुतिः ...{Loading}...

भवस् त्वा अभ्य् अरुक्षद्
रुद्रस् ते अंसुम् आभरत् ।
रात्री त्वाभ्य् अगोपायत्
सा त्वं भूते अजायथाः ॥

०३ द्यौष् ट आयुर्

विश्वास-प्रस्तुतिः ...{Loading}...

द्यौष् ट आयुर् गोपायद्
अन्तरिक्षम् असुं तव ।
माता भूतस्य भव्यस्य
पृथिवी त्वाभि रक्षतु ॥

०४ यां त्वा देवाः

विश्वास-प्रस्तुतिः ...{Loading}...

यां त्वा देवाः समदधुः
सहस्रपुरुषं सतीम् ।
सा देवी त्वम् अस्येदम्
अपाज व्य् अजा विषम् ॥

०५ याः पुरस्तात् प्रस्यन्दन्ते

विश्वास-प्रस्तुतिः ...{Loading}...

याः पुरस्तात् प्रस्यन्दन्ते
दिवा नक्तं च योषितः ।
आपः पुरु स्रवन्तीस्
ता उ ते विषदूषणीः ॥

०६ आतपस् ते वर्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

आतपस् ते वर्षम् आसीद्
अग्निश् छायाभवत् तपः ।
उल्बं ते अभ्रम् आसीत्
सा त्वं भूते अजायथाः ॥

०७ गन्धर्वस् ते मूलम्

विश्वास-प्रस्तुतिः ...{Loading}...

गन्धर्वस् ते मूलम् आसीच्
छाखा अप्सरसस् तव ।
मरीचीर् आसन् पर्णानि
सिनीवाली कुलं तव ॥

०८ अजरा देवा अदधुर्

विश्वास-प्रस्तुतिः ...{Loading}...

अजरा देवा अदधुर्
अमृतं मर्त्येष्व् आ ।
तस्यै तद् अग्रम् आ ददे
तद् उ ते विषदूषणम् ॥

०९ अनभ्रौ खनमानं विप्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनभ्रौ खनमानं
विप्रं गम्भीरे अपसम् ।
भिषक् चक्षुर् भिषक् खने
तद् उ ते विषदूषणम् ॥

१० याः पुरस्ताद् वितिष्ठन्ते

विश्वास-प्रस्तुतिः ...{Loading}...

याः पुरस्ताद् वितिष्ठन्ते
गावः प्रव्राजिनीर् इव ।
अमृतस्येव वा अस्य्
अथो हास्य् अरुन्धती ॥

११ यो मयः सरघायाः

विश्वास-प्रस्तुतिः ...{Loading}...

यो मयः सरघायाः
प्रखाय मध्व् आभरत् ।
ततो यवः प्राजायत
सो ऽभवद् विषदूषणः ॥

१२ यवस्यैतत् पलालिनो गोधूमस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यवस्यैतत् पलालिनो
गोधूमस्य तिलस्य च ।
व्रीहेर् यवस्य दैव्येन
कृणोम्य् अरसं विषम् ॥

१३ महीं योनिं समुद्रस्य

विश्वास-प्रस्तुतिः ...{Loading}...

महीं योनिं समुद्रस्य-
-अन्व् अविन्दन्न् ऋतायवः । +++(Bhatt. and Kim 2014, 302 avindan)+++
तां देवा गुह्याम् आसीनां
समुद्राच् चिद् उद् आभरन् ॥

१४ समुद्राच् चिद् उदाभृत्य

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्राच् चिद् उदाभृत्य
ताम् उ पुष्कर आ दधुः ।
अस्याः पृथिव्या देव्याश् चक्षुर्
आकाश्यम् असि विषदूषणम् ॥