सर्वाष् टीकाः ...{Loading}...
०१ जीवातवे न मर्तवे
विश्वास-प्रस्तुतिः ...{Loading}...
जीवातवे न मर्तवे
शिरस् त आ रभामहे ।
रसं विषस्य नाविदम्
उद्नः फेनम् अदन्न् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
जीवातवे न मर्तवे
शिरस् त आ रभामहे ।
रसं विषस्य नाविदम्
उद्नः फेनम् अदन्न् इव ॥
सर्वाष् टीकाः ...{Loading}...
०२ भूम्या मध्याद् दिवो
विश्वास-प्रस्तुतिः ...{Loading}...
भूम्या मध्याद् दिवो मध्याद्
भूम्या अन्ताद् अथो दिवः ।
मध्ये पृथिव्या यद् विषं
तद् वाचा दूषयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
भूम्या मध्याद् दिवो मध्याद्
भूम्या अन्ताद् अथो दिवः ।
मध्ये पृथिव्या यद् विषं
तद् वाचा दूषयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ अश्वत्थे निहितं विषम्
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वत्थे निहितं विषं
कपाले निहितं विषम् ।
शिलाया जज्ञे तैमातः
प्रथमो विषदूषणी ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्वत्थे निहितं विषं
कपाले निहितं विषम् ।
शिलाया जज्ञे तैमातः
प्रथमो विषदूषणी ॥
सर्वाष् टीकाः ...{Loading}...
०४ विषस्याहं वैन्दकस्य विषस्य
विश्वास-प्रस्तुतिः ...{Loading}...
विषस्याहं वैन्दकस्य
विषस्य दार्व्यस्य च ।
अथो विषस्य स्वैत्नस्य
समानीं वाचम् अग्रभम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
विषस्याहं वैन्दकस्य
विषस्य दार्व्यस्य च ।
अथो विषस्य स्वैत्नस्य
समानीं वाचम् अग्रभम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ तद् इद् वदन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
तद् इद् वदन्त्य् अर्थिन
उत शूद्रा उतार्याः ।
विषाणां विष्वगर्थानां
सर्वथैवारसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तद् इद् वदन्त्य् अर्थिन
उत शूद्रा उतार्याः ।
विषाणां विष्वगर्थानां
सर्वथैवारसं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ परुषस् त्वामृतकर्णो विष
विश्वास-प्रस्तुतिः ...{Loading}...
परुषस् त्वामृतकर्णो
विष प्रथमम् आवयत् ।
यथा ह तं नारोपयस्
तथास्य् अरसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
परुषस् त्वामृतकर्णो
विष प्रथमम् आवयत् ।
यथा ह तं नारोपयस्
तथास्य् अरसं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ यद् वो देवा
विश्वास-प्रस्तुतिः ...{Loading}...
यद् वो देवा उपजीका
उद्देहं शुषिरं ददुः ।
तत्रामृतस्यासिक्तं
तच् चकारारसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् वो देवा उपजीका
उद्देहं शुषिरं ददुः ।
तत्रामृतस्यासिक्तं
तच् चकारारसं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ शकुन्तिका मे अब्रवीद्
विश्वास-प्रस्तुतिः ...{Loading}...
शकुन्तिका मे अब्रवीद्
विषपुष्पं धयन्तिका ।
न रोपयति न मादयत्य्
अरसं शार्वीयं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शकुन्तिका मे अब्रवीद्
विषपुष्पं धयन्तिका ।
न रोपयति न मादयत्य्
अरसं शार्वीयं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ अत्य् अपप्ताम दुर्गाणि
विश्वास-प्रस्तुतिः ...{Loading}...
अत्य् अपप्ताम दुर्गाणि
शारीः शकुनयो यथा ।
इहेन्द्राणीं वरुणानीं
सिनीवालीं क्रकोढ्याम् ।
ग्राहां शूरपुत्रां देवीं
याचामो विषदूषणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अत्य् अपप्ताम दुर्गाणि
शारीः शकुनयो यथा ।
इहेन्द्राणीं वरुणानीं
सिनीवालीं क्रकोढ्याम् ।
ग्राहां शूरपुत्रां देवीं
याचामो विषदूषणम् ॥
सर्वाष् टीकाः ...{Loading}...
१० आलकं व्यालकं व्य्
विश्वास-प्रस्तुतिः ...{Loading}...
आलकं व्यालकं व्य् आवं
जाल्म जीगीमहे ।
जरद्विषं युवाभिषग्
वयम् इत् सासहामहै ॥
मूलम् ...{Loading}...
मूलम् (GR)
आलकं व्यालकं व्य् आवं
जाल्म जीगीमहे ।
जरद्विषं युवाभिषग्
वयम् इत् सासहामहै ॥
सर्वाष् टीकाः ...{Loading}...
११ अस्थाद् द्यौर् अस्थात्
विश्वास-प्रस्तुतिः ...{Loading}...
अस्थाद् द्यौर् अस्थात् पृथिव्य्
अस्थाद् विश्वम् इदं जगत् ।
अस्थुर् विषस्यारोपयो
ऽनड्वाहः क्रिशा इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्थाद् द्यौर् अस्थात् पृथिव्य्
अस्थाद् विश्वम् इदं जगत् ।
अस्थुर् विषस्यारोपयो
ऽनड्वाहः क्रिशा इव ॥
सर्वाष् टीकाः ...{Loading}...
१२ यावत् सूर्यो वितपति
विश्वास-प्रस्तुतिः ...{Loading}...
यावत् सूर्यो वितपति
यावच् चाभिविपश्यति ।
तेनाहम् इन्द्रदत्तेन
कृणोम्य् अरसं विषम् ।
तद् विषम् अरसं विषम्
अधोभाग् अरसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावत् सूर्यो वितपति
यावच् चाभिविपश्यति ।
तेनाहम् इन्द्रदत्तेन
कृणोम्य् अरसं विषम् ।
तद् विषम् अरसं विषम्
अधोभाग् अरसं विषम् ॥