००९

सर्वाष् टीकाः ...{Loading}...

०१ यस्य यव प्रसर्पस्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य यव प्रसर्पस्य्
अङ्गमङ्गं परुष्परुः ।
तस्माद् यक्षं वि बाधस्व-
-उग्रो मध्यमशीर् इव ॥

०२ शकलं च न

विश्वास-प्रस्तुतिः ...{Loading}...

शकलं च न ते यव-
-अन्या रुहन्त्य् ओषधीः ।
यव इद् यावयाद् गोर्
अश्वात् पुरुषाद् विषम् ॥

०३ यवो राजा यवो

विश्वास-प्रस्तुतिः ...{Loading}...

यवो राजा यवो भिषग्
यवस्य महिमा महान् ।
यवस्य मन्थं पपिवान्
इन्द्रश् चकार वीर्यम् ॥

०४ आ भरामृतं घृतस्य

विश्वास-प्रस्तुतिः ...{Loading}...

आ भरामृतं घृतस्य
पुष्पम् आ भर ।
अनभ्रिखात ओषध
इदं दूषय यद् विषम् ॥

०५ य आयन्ति दिग्धविद्धाः

विश्वास-प्रस्तुतिः ...{Loading}...

य आयन्ति दिग्धविद्धाः
शूद्रा राजन्या उत ।
चक्षुर् मे सर्व आदृश्य
ते यन्त्य् अगदाः पुनः ॥