सर्वाष् टीकाः ...{Loading}...
०१ अक्षण्वता लाङ्गलेन पद्वता
विश्वास-प्रस्तुतिः ...{Loading}...
अक्षण्वता लाङ्गलेन
पद्वता पतयिष्णुना ।
लाङ्गूलगृह्य चर्कृषुर्
वृकेण यवम् अश्विना ॥
मूलम् ...{Loading}...
मूलम् (GR)
अक्षण्वता लाङ्गलेन
पद्वता पतयिष्णुना ।
लाङ्गूलगृह्य चर्कृषुर्
वृकेण यवम् अश्विना ॥
सर्वाष् टीकाः ...{Loading}...
०२ देवा एतं मधुना
विश्वास-प्रस्तुतिः ...{Loading}...
देवा एतं मधुना संयुतं यवं
सरस्वत्याम् अधि वणाव् अचर्कृषुः ।
इन्द्र आसीत् सीरपतिः शतक्रतुः
किनाशा आसन् मरुतः सुदानवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवा एतं मधुना संयुतं यवं
सरस्वत्याम् अधि वणाव् अचर्कृषुः ।
इन्द्र आसीत् सीरपतिः शतक्रतुः
किनाशा आसन् मरुतः सुदानवः ॥
सर्वाष् टीकाः ...{Loading}...
०३ हिरण्ययं कलशं सुदानवो
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्ययं कलशं सुदानवो
दिव्यया सरघया कृतम् ।
अव भृतम् अश्विना यवं
तद् युवं मधु चक्रथुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्ययं कलशं सुदानवो
दिव्यया सरघया कृतम् ।
अव भृतम् अश्विना यवं
तद् युवं मधु चक्रथुः ॥
सर्वाष् टीकाः ...{Loading}...
०४ कृशाव् एतद् अजयतम्
विश्वास-प्रस्तुतिः ...{Loading}...
कृशाव् एतद् अजयतम् (Bhatt. kriśāv)
अश्विना सारघं मधु ।
ततो यवो व्य् अरोहत्
सो ऽभवद् विषदूषणः ॥
मूलम् ...{Loading}...
मूलम् (GR)
कृशाव् एतद् अजयतम् (Bhatt. kriśāv)
अश्विना सारघं मधु ।
ततो यवो व्य् अरोहत्
सो ऽभवद् विषदूषणः ॥
सर्वाष् टीकाः ...{Loading}...
०५ युवार्वान् सरघायाः प्रखिद्य
विश्वास-प्रस्तुतिः ...{Loading}...
युवार्वान् सरघायाः
प्रखिद्य मध्व् आभरत् ।
(…) ॥ (see 4cd)
मूलम् ...{Loading}...
मूलम् (GR)
युवार्वान् सरघायाः
प्रखिद्य मध्व् आभरत् ।
(…) ॥ (see 4cd)
सर्वाष् टीकाः ...{Loading}...
०६ यद् वृकं मधुपावानम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् वृकं मधुपावानम्
अवामयतम् अश्विना ।
(…) ॥ (see 4cd)
मूलम् ...{Loading}...
मूलम् (GR)
यद् वृकं मधुपावानम्
अवामयतम् अश्विना ।
(…) ॥ (see 4cd)
सर्वाष् टीकाः ...{Loading}...
०७ कैरण्डा नाम सरसो
विश्वास-प्रस्तुतिः ...{Loading}...
कैरण्डा नाम सरसो
वृकस्य वम्या अधि ।
ततो यवो व्य् अरोहत्
सो ऽभवद् विषदूषणः ॥
मूलम् ...{Loading}...
मूलम् (GR)
कैरण्डा नाम सरसो
वृकस्य वम्या अधि ।
ततो यवो व्य् अरोहत्
सो ऽभवद् विषदूषणः ॥
सर्वाष् टीकाः ...{Loading}...
०८ यद् अस्य भरथो
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अस्य भरथो मधु
सरघा सथ्व् अच्छिनत् ।
सद्यस् तद् अर्वतो युवं
पुनर् आ दत्तम् अश्विना ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अस्य भरथो मधु
सरघा सथ्व् अच्छिनत् ।
सद्यस् तद् अर्वतो युवं
पुनर् आ दत्तम् अश्विना ॥
सर्वाष् टीकाः ...{Loading}...
०९ यो यवं दिग्धविद्धो
विश्वास-प्रस्तुतिः ...{Loading}...
यो यवं दिग्धविद्धो
अहिदष्ट उपासरत् ।
तीर्थे रध्रम् इव मज्जन्तम्
उत् तं भरतम् अश्विना ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो यवं दिग्धविद्धो
अहिदष्ट उपासरत् ।
तीर्थे रध्रम् इव मज्जन्तम्
उत् तं भरतम् अश्विना ॥
सर्वाष् टीकाः ...{Loading}...
१० यं वहन्त्य् अष्टायोगाः
विश्वास-प्रस्तुतिः ...{Loading}...
यं वहन्त्य् अष्टायोगाः
षड्योगा यं चतुर्गवाः ।
स ते विषं वि बाधताम्
उग्रो मध्यमशीर् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं वहन्त्य् अष्टायोगाः
षड्योगा यं चतुर्गवाः ।
स ते विषं वि बाधताम्
उग्रो मध्यमशीर् इव ॥