सर्वाष् टीकाः ...{Loading}...
०१ इमां खनाम्य् ओषधिम्
विश्वास-प्रस्तुतिः ...{Loading}...
इमां खनाम्य् ओषधिम्
अदृष्टहननीम् अहम् ।
अश्वस्यावो ददाति त्वा
वैरूपो वाजिनीवति ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमां खनाम्य् ओषधिम्
अदृष्टहननीम् अहम् ।
अश्वस्यावो ददाति त्वा
वैरूपो वाजिनीवति ॥
सर्वाष् टीकाः ...{Loading}...
०२ नादृष्टा वो जिह्वाः
विश्वास-प्रस्तुतिः ...{Loading}...
नादृष्टा वो जिह्वाः सन्ति
न दन्ता हन्वोर् अधि ।
नापि मध्यं नो शिरस्
ते यूयं किं करिष्यथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
नादृष्टा वो जिह्वाः सन्ति
न दन्ता हन्वोर् अधि ।
नापि मध्यं नो शिरस्
ते यूयं किं करिष्यथ ॥
सर्वाष् टीकाः ...{Loading}...
०३ इन्द्रामित्रा इन्द्रहता न
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रामित्रा इन्द्रहता
न व इहास्ति न्यञ्चनम् ।
इन्द्रो वः सर्वासां साकं
शक्रस् तृणेढु वृत्रहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रामित्रा इन्द्रहता
न व इहास्ति न्यञ्चनम् ।
इन्द्रो वः सर्वासां साकं
शक्रस् तृणेढु वृत्रहा ॥
सर्वाष् टीकाः ...{Loading}...
०४ अश्वतरां अयःशफान् यान्
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वतराꣳ अयःशफान्
यान् इन्द्रो अधितिष्ठति ।
तैर् वो ऽपि नह्येय ते
मुखान्य् उदरसर्पिणः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्वतराꣳ अयःशफान्
यान् इन्द्रो अधितिष्ठति ।
तैर् वो ऽपि नह्येय ते
मुखान्य् उदरसर्पिणः ॥
सर्वाष् टीकाः ...{Loading}...
०५ अपिनह्यम् अदृष्टानां मुखम्
विश्वास-प्रस्तुतिः ...{Loading}...
अपिनह्यम् अदृष्टानां
मुखं पादा दृतेर् इव ।
उतैषां जिह्वा निष्कर्ता
निर्दन्ता हन्वोर् अधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपिनह्यम् अदृष्टानां
मुखं पादा दृतेर् इव ।
उतैषां जिह्वा निष्कर्ता
निर्दन्ता हन्वोर् अधि ॥
सर्वाष् टीकाः ...{Loading}...
०६ अवधिषम् असृगादां नि
विश्वास-प्रस्तुतिः ...{Loading}...
अवधिषम् असृगादां
नि क्रोडादा अलिप्सत ।
अभैत्सं सर्वेषाम् आण्डानि
ये अदृष्टाः पृथिवीक्षितः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अवधिषम् असृगादां
नि क्रोडादा अलिप्सत ।
अभैत्सं सर्वेषाम् आण्डानि
ये अदृष्टाः पृथिवीक्षितः ॥
सर्वाष् टीकाः ...{Loading}...
०७ रिश्यासः पौरुषासो दर्भासो
विश्वास-प्रस्तुतिः ...{Loading}...
रिश्यासः पौरुषासो
दर्भासो वैरिणा उत ।
मौञ्जा अदृष्टाः सैर्याः
सर्वे साकं नि जस्यत ॥
मूलम् ...{Loading}...
मूलम् (GR)
रिश्यासः पौरुषासो
दर्भासो वैरिणा उत ।
मौञ्जा अदृष्टाः सैर्याः
सर्वे साकं नि जस्यत ॥
सर्वाष् टीकाः ...{Loading}...
०८ अदृष्टानां सप्त जाता
विश्वास-प्रस्तुतिः ...{Loading}...
अदृष्टानां सप्त जाता
पृथिवी न शिशे मही ।
तान् इन्द्रो बाहुभ्यां
सर्वाञ् छक्रो अपावयत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अदृष्टानां सप्त जाता
पृथिवी न शिशे मही ।
तान् इन्द्रो बाहुभ्यां
सर्वाञ् छक्रो अपावयत् ॥
सर्वाष् टीकाः ...{Loading}...
०९ ये वः सन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
ये वः सन्ति सप्त जाता
अदृष्टाः पुरुषादिनः ।
ग्राव्णांशून् इव सोमस्य
तान् सर्वान् प्र मृणीमसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये वः सन्ति सप्त जाता
अदृष्टाः पुरुषादिनः ।
ग्राव्णांशून् इव सोमस्य
तान् सर्वान् प्र मृणीमसि ॥
सर्वाष् टीकाः ...{Loading}...
१० य आत्मजा ये
विश्वास-प्रस्तुतिः ...{Loading}...
य आत्मजा ये वस्तिजा
य रुषा य उ तोदिनः ।
तेभ्यः खनाम्य् ओषधिं
येभ्यो बिम्बीवधः कृतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
य आत्मजा ये वस्तिजा
य रुषा य उ तोदिनः ।
तेभ्यः खनाम्य् ओषधिं
येभ्यो बिम्बीवधः कृतः ॥
सर्वाष् टीकाः ...{Loading}...
११ अदृष्टेभ्यस् तरुणेभ्यो युवद्भ्य
विश्वास-प्रस्तुतिः ...{Loading}...
अदृष्टेभ्यस् तरुणेभ्यो
युवद्भ्य स्थविरेभ्यः ।
आहार्षम् उग्राम् ओषधिं
येभ्यो बिम्बीवधः कृतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अदृष्टेभ्यस् तरुणेभ्यो
युवद्भ्य स्थविरेभ्यः ।
आहार्षम् उग्राम् ओषधिं
येभ्यो बिम्बीवधः कृतः ॥
सर्वाष् टीकाः ...{Loading}...
१२ ये च दृष्टा
विश्वास-प्रस्तुतिः ...{Loading}...
ये च दृष्टा ये चादृष्टास्
तितीलाः शलुनाश् च ये ।
तान् अग्ने सर्वान् सं दह
क्रिमीन् अनेजतो जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये च दृष्टा ये चादृष्टास्
तितीलाः शलुनाश् च ये ।
तान् अग्ने सर्वान् सं दह
क्रिमीन् अनेजतो जहि ॥