००५

सर्वाष् टीकाः ...{Loading}...

०१ सहस्रबाहुः पुरुषः सहस्राक्षः

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्रबाहुः पुरुषः
सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वा-
-अत्य् अतिष्ठद् दशाङ्गुलम् ॥

०२ त्रिभिः पद्भिर् द्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिभिः पद्भिर् द्याम् अरोहत्
पाद् अस्येहाभवत् पुनः ।
तथा व्य् अक्रामद् विष्वङ्ङ् (Bhatt. viṣvaṅ)
अशनानशने अनु ॥

०३ तावन्तो अस्य महिमानस्

विश्वास-प्रस्तुतिः ...{Loading}...

तावन्तो अस्य महिमानस्
ततो ज्यायांश् च पुरुषः ।
पाद् अस्य विश्वा भूतानि
त्रिपाद् अस्यामृतं दिवि ॥

०४ पुरुष एवेदं सर्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

पुरुष एवेदं सर्वं
यद् भूतं यच् च भाव्यम् ।
उतामृतत्वस्येश्वरो
यद् अन्नेनाभवत् सह ॥

०५ यत् पुरुषं व्यदधुः

विश्वास-प्रस्तुतिः ...{Loading}...

यत् पुरुषं व्यदधुः
कतिधा व्य् अकल्पयन् ।
मुखं किम् अस्य किं बाहू
किम् ऊरू पादा उच्येते ॥

०६ ब्राह्मणो ऽस्य मुखम्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्राह्मणो ऽस्य मुखम् आसीद्
बाहू राजन्यो ऽभवत् ।
मध्यं तद् अस्य यद् वैश्यः
पद्भ्यां शूद्रो अजायत ॥

०७ विराड् अग्रे सम्

विश्वास-प्रस्तुतिः ...{Loading}...

विराड् अग्रे सम् अभवद्
विराजो अधि पूरुषः ।
स जातो अत्य् अरिच्यत
पश्चाद् भूमिम् अथो पुरः ॥

०८ यत् पुरुषेण हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

यत् पुरुषेण हविषा
देवा यज्ञम् अतन्वत ।
वसन्तो अस्यासीद् आज्यं
ग्रीष्म इध्मः शरद् धविः ॥

०९ तं यज्ञं प्रावृषा

विश्वास-प्रस्तुतिः ...{Loading}...

तं यज्ञं प्रावृषा प्रौक्षन्
पुरुषं जातम् अग्रशः ।
तेन देवा अयजन्त
साध्या वसवश् च ये ॥

१० तस्माद् अश्वा अजायन्त

विश्वास-प्रस्तुतिः ...{Loading}...

तस्माद् अश्वा अजायन्त
ये च के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्
तस्माज् जाता अजावयः ॥

११ तस्माद् यज्ञात् सर्वहुत

विश्वास-प्रस्तुतिः ...{Loading}...

तस्माद् यज्ञात् सर्वहुत
ऋचः सामानि जज्ञिरे ।
छन्दो ह जज्ञिरे तस्माद्
यजुस् तस्माद् अजायत ॥

१२ तस्माद् यज्ञात् सर्वहुतः

विश्वास-प्रस्तुतिः ...{Loading}...

तस्माद् यज्ञात् सर्वहुतः
संभृतं पृषदाज्यम् ।
पशून् तांश् चक्रे वायव्यान्
आरण्यान् ग्राम्याश् च ये ॥

१३ सप्तास्यासन् परिधयस् त्रिः

विश्वास-प्रस्तुतिः ...{Loading}...

सप्तास्यासन् परिधयस्
त्रिः सप्त समिधः कृताः ।
देवा यद् यज्ञं तन्वाना
अबध्नन् पुरुषं पशुम् ॥

१४ मूर्ध्नो देवस्य बृहतो

विश्वास-प्रस्तुतिः ...{Loading}...

मूर्ध्नो देवस्य बृहतो
ऽंशवः सप्त सप्ततीः ।
राज्ञः सोमस्याजायन्त
जातस्य पुरुषाद् अधि ॥

१५ चन्द्रमा मनसो जातश्

विश्वास-प्रस्तुतिः ...{Loading}...

चन्द्रमा मनसो जातश्
चक्षुः सूर्यो ऽजायत ।
श्रोत्राद् वायुश् च प्राणश् च
मुखाद् अग्निर् अजायत ॥

१६ नाभ्या आसीद् अन्तरिक्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

नाभ्या आसीद् अन्तरिक्षं (Bhatt. nābhyāṃ)
शीर्ष्णो द्यौः सम् अवर्तत ।
पद्भ्यां भूमिर् दिशः श्रोत्राङ्
तथा लोकाꣳ अकल्पयन् ॥