सर्वाष् टीकाः ...{Loading}...
०१ आपः पुनन्तु वरुणः
विश्वास-प्रस्तुतिः ...{Loading}...
आपः पुनन्तु वरुणः पुनात्व्
अयं च यः पवते विश्वदानीम् ।
यज्ञो भगो अधिवक्ता विधर्ता-
-अग्निश् च नः पावयेतां सूर्यश् च ॥
मूलम् ...{Loading}...
मूलम् (GR)
आपः पुनन्तु वरुणः पुनात्व्
अयं च यः पवते विश्वदानीम् ।
यज्ञो भगो अधिवक्ता विधर्ता-
-अग्निश् च नः पावयेतां सूर्यश् च ॥
सर्वाष् टीकाः ...{Loading}...
०२ दशशीर्षो दशजिह्व आ
विश्वास-प्रस्तुतिः ...{Loading}...
दशशीर्षो दशजिह्व
आ रभे वीरको भिषक् ।
मा ते रिषं खनिता
यस्मै च त्वा खनामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
दशशीर्षो दशजिह्व
आ रभे वीरको भिषक् ।
मा ते रिषं खनिता
यस्मै च त्वा खनामसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ दशरात्रे किलासस्य वीरुधा
विश्वास-प्रस्तुतिः ...{Loading}...
दशरात्रे किलासस्य
वीरुधा वेद भेषजम् ।
इतस् तद् अभ्रियाखनं
किलासं नाशयामि ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
दशरात्रे किलासस्य
वीरुधा वेद भेषजम् ।
इतस् तद् अभ्रियाखनं
किलासं नाशयामि ते ॥
सर्वाष् टीकाः ...{Loading}...
०४ अप्स्व् अन्या वि
विश्वास-प्रस्तुतिः ...{Loading}...
अप्स्व् अन्या वि रोहति
धन्वन्य् अन्याधि तिष्ठति ।
किलासम् अन्यानीनशद्
वर्चसान्या सम् उक्षतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अप्स्व् अन्या वि रोहति
धन्वन्य् अन्याधि तिष्ठति ।
किलासम् अन्यानीनशद्
वर्चसान्या सम् उक्षतु ॥
सर्वाष् टीकाः ...{Loading}...
०५ आज्येन घृतेन जुहोमि
विश्वास-प्रस्तुतिः ...{Loading}...
आज्येन घृतेन
जुहोमि किलासभेषजम् ।
वीरुधाम् अग्नेः सङ्काशे
किलासं नानु विद्यते ॥
मूलम् ...{Loading}...
मूलम् (GR)
आज्येन घृतेन
जुहोमि किलासभेषजम् ।
वीरुधाम् अग्नेः सङ्काशे
किलासं नानु विद्यते ॥
सर्वाष् टीकाः ...{Loading}...
०६ पिशङ्गरूपो भवति कल्माषम्
विश्वास-प्रस्तुतिः ...{Loading}...
पिशङ्गरूपो भवति
कल्माषम् उत संदृशि ।
किलास नश्येतः परः
प्र त्वा धक्ष्यामि वीरुधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
पिशङ्गरूपो भवति
कल्माषम् उत संदृशि ।
किलास नश्येतः परः
प्र त्वा धक्ष्यामि वीरुधा ॥
सर्वाष् टीकाः ...{Loading}...
०७ यानि पृथग् उत्पतन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
यानि पृथग् उत्पतन्ति
नक्षत्राणीव संदृशि ।
किलासं सर्वं नाशयन्न्
ओघ इवाभ्य् एमि वीरुधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यानि पृथग् उत्पतन्ति
नक्षत्राणीव संदृशि ।
किलासं सर्वं नाशयन्न्
ओघ इवाभ्य् एमि वीरुधा ॥
सर्वाष् टीकाः ...{Loading}...
०८ यदि वा पुरुषेषितात्
विश्वास-प्रस्तुतिः ...{Loading}...
यदि वा पुरुषेषितात्
किलास पर्याजगन् ।
नमो नमस्यामो देवान्
प्रत्यक् कर्तारम् ऋच्छतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदि वा पुरुषेषितात्
किलास पर्याजगन् ।
नमो नमस्यामो देवान्
प्रत्यक् कर्तारम् ऋच्छतु ॥
सर्वाष् टीकाः ...{Loading}...
०९ शीर्ष्णस् ते स्कन्धेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
शीर्ष्णस् ते स्कन्धेभ्यो
ललाटात् परि कर्णयोः ।
ओषध्या वर्षजूतया
किलासं नाशयामि ते ।
स्वस् त्वा वर्ण आयत्य्
अनरातिः सहौषधिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शीर्ष्णस् ते स्कन्धेभ्यो
ललाटात् परि कर्णयोः ।
ओषध्या वर्षजूतया
किलासं नाशयामि ते ।
स्वस् त्वा वर्ण आयत्य्
अनरातिः सहौषधिः ॥
सर्वाष् टीकाः ...{Loading}...
१० ग्रीवाभ्यस् त उष्णिहाभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
ग्रीवाभ्यस् त उष्णिहाभ्यः
कीकसाभ्यो अनूक्यात् ।
(…) ॥ (see 9cdef)
मूलम् ...{Loading}...
मूलम् (GR)
ग्रीवाभ्यस् त उष्णिहाभ्यः
कीकसाभ्यो अनूक्यात् ।
(…) ॥ (see 9cdef)
सर्वाष् टीकाः ...{Loading}...
११ अंसाभ्यां ते दोर्भ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
अंसाभ्यां ते दोर्भ्यां
बाहुभ्यां परि हस्तयोः ।
(…) ॥ (see 9cdef)
मूलम् ...{Loading}...
मूलम् (GR)
अंसाभ्यां ते दोर्भ्यां
बाहुभ्यां परि हस्तयोः ।
(…) ॥ (see 9cdef)
सर्वाष् टीकाः ...{Loading}...
१२ पृष्टिभ्यस् ते पार्श्वाभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
पृष्टिभ्यस् ते पार्श्वाभ्यां
श्रोणिभ्यां परि भंससः ।
(…) ॥ (see 9cdef)
मूलम् ...{Loading}...
मूलम् (GR)
पृष्टिभ्यस् ते पार्श्वाभ्यां
श्रोणिभ्यां परि भंससः ।
(…) ॥ (see 9cdef)
सर्वाष् टीकाः ...{Loading}...
१३ ऊरुभ्यां ते ऽष्ठीवद्भ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऊरुभ्यां ते ऽष्ठीवद्भ्यां
पार्ष्णिभ्यां प्रपदाभ्याम् ।
ओषध्या वर्षजूतया
किलासं नाशयामि ते ।
स्वस् त्वा वर्ण आयत्य्
अनरातिः सहौषधिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊरुभ्यां ते ऽष्ठीवद्भ्यां
पार्ष्णिभ्यां प्रपदाभ्याम् ।
ओषध्या वर्षजूतया
किलासं नाशयामि ते ।
स्वस् त्वा वर्ण आयत्य्
अनरातिः सहौषधिः ॥