०२०

सर्वाष् टीकाः ...{Loading}...

०१ सूर्यो मा वर्चसोक्षतु

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्यो मा वर्चसोक्षतु-
-उक्षताम् अश्विनोभा ।
आदित्य ऊर्ध्व उच्चरन्
स उ मा वर्चसोक्षतु ॥

०२ वर्चसा मां पितुर्

विश्वास-प्रस्तुतिः ...{Loading}...

वर्चसा मां पितुर् अग्निर्
वर्चसा मा बृहस्पतिः ।
सुरायाः सिच्यमानायाः
कीलालवर्चसेन मा ।
तेन माम् अश्विनोभा
उक्षतां पुष्करस्रजा ॥

०३ वर्चस्वन् मे मुखम्

विश्वास-प्रस्तुतिः ...{Loading}...

वर्चस्वन् मे मुखम् अस्तु
रोचमानं विषासहि ।
तन् मा हिरण्यवर्चसं
कृणोमि पश्यतां प्रियम् ॥

०४ मधोर् अहं मधुतरो

विश्वास-प्रस्तुतिः ...{Loading}...

मधोर् अहं मधुतरो
मधुघान् मधुमत्तरः ।
माम् अनु प्र विशतु वर्च
ऋषभो वाशिताम् इव ॥

०५ इदम् आञ्जनम् आनजे

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् आञ्जनम् आनजे
वर्चस्यम् आ कनिक्रदम् ।
यथा कनिक्रदच् चराणि
वर्चसा च भगेन च ॥

०६ वर्चसाग्निम् आ दधति

विश्वास-प्रस्तुतिः ...{Loading}...

वर्चसाग्निम् आ दधति
वर्चसोद् एति सूर्यः ।
यावद् वर्चो गोहिरण्यस्य
तावन् मे वर्चो भूयात् ॥

०७ यावत् त्वं देव

विश्वास-प्रस्तुतिः ...{Loading}...

यावत् त्वं देव सूर्य
उद्यन्न् अभि विपश्यसि ।
तावन् मा वर्चसाभि वि पश्य ॥

०८ पूर्णो भगस्याहं भूत्वा

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्णो भगस्याहं भूत्वा-
-अरुक्षं वर्चसो रथम् ।
स मा वहतु सर्वदा-
-आयुष्मन्तं सुवर्चसम् ॥

०९ भगेनाहं परिहितो वर्चसा

विश्वास-प्रस्तुतिः ...{Loading}...

भगेनाहं परिहितो
वर्चसा द्रविणेन च ।
यथा चराणि सर्वदा
रोचमानं विभावसु ॥

१० एवा मा भग

विश्वास-प्रस्तुतिः ...{Loading}...

एवा मा भग आगमद्
एवा मा वर्च आगमत् ।
एवा मा तेज आगमद्
एवा मा यश आगमत् ॥

११ हिरण्ययेन चक्रेण भगस्यापिहितो

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्ययेन चक्रेण
भगस्यापिहितो गृहः ।
तं व्य् उब्जामि ब्रह्मणा
तस्य मे दत्तम् अश्विना
दत्तं मे पुष्करस्रजा ॥