०१९

सर्वाष् टीकाः ...{Loading}...

०१ आज्याद् अजः सम्

विश्वास-प्रस्तुतिः ...{Loading}...

आज्याद् अजः सम् अभवद्
देशेभ्य ओदना इमे ।
तान् अपश्यद् बृहस्पतिः
स वै पञ्चौदनो ऽभवत् ॥

०२ चतुर्धैतां सम् अभर

विश्वास-प्रस्तुतिः ...{Loading}...

चतुर्धैतां सम् अभर
ओदनांस् त्वं बृहस्पते ।
अज आज्याज् जातः
स एषां पञ्चमो ऽभवत् ॥

०३ धूमेन दिवम् आप्नोत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

धूमेन दिवम् आप्नोत्य्
अन्तरिक्षम् उतोष्मणा ।
दिश आप्नोति चक्षुषा
अजः पञ्चौदनः सवः ॥

०४ या ते माता

विश्वास-प्रस्तुतिः ...{Loading}...

या ते माता यस् ते पिता
भ्रातरो ये च ते स्वाः ।
अजं पञ्चौदनं पक्त्वा
सर्वे तम् उप जीवत ॥

०५ ये ते पूर्वे

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते पूर्वे परागता
अपरे पितरश् च ये ।
तेभ्यो घृतस्य कुल्यैतु
शतधारा व्युन्दती ॥

०६ ये सर्वदा ददति

विश्वास-प्रस्तुतिः ...{Loading}...

ये सर्वदा ददति
ये वा पचन्त्य् ओदनम् ।
ते वै यमस्य राज्याद्
उत्तरे लोक आसते ॥

०७ नातिरात्र आप्नोति नैनम्

विश्वास-प्रस्तुतिः ...{Loading}...

नातिरात्र आप्नोति
नैनम् आप्नोत्य् उक्थ्यः ।
नाग्निष्टोम आप्नोत्य्
अजं पञ्चौदनं सवम् ॥

०८ दशरात्रेण सम्मितो द्वादशाहेन

विश्वास-प्रस्तुतिः ...{Loading}...

दशरात्रेण संमितो
द्वादशाहेन कल्पते ।
दीर्घसत्त्रेण संमितो
ऽजः पञ्चौदनः सवः ॥

०९ तेषां बर्हिष्यं सर्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

तेषां बर्हिष्यं सर्वं
यन् नष्टं यच् च म्रियते ।
यच् च स्तेनो ऽपाजति
येषां पञ्चौदनः सवः ॥

१० या पूर्वपतिं वित्त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

या पूर्वपतिं वित्त्वा-
-अथान्यं विन्दते ऽपरम् ।
पञ्चौदनं च ताव् अजं
पचतो न वि योषतः ॥

११ समानलोको भवति पुनर्भुवापरः

विश्वास-प्रस्तुतिः ...{Loading}...

समानलोको भवति
पुनर्भुवापरः पतिः ।
अजं पञ्चौदनं
दक्षिणाज्योतिषं ददत् ॥