०१८

सर्वाष् टीकाः ...{Loading}...

०१ संयुज्यन्तः प्रकृषन्तो यद्

विश्वास-प्रस्तुतिः ...{Loading}...

संयुज्यन्तः प्रकृषन्तो
यद् वो देवा उपोचिरे ।
ताम् एभ्यः सत्याम् आशिषम्
इन्द्र खल्वां सम् अर्धय ॥

०२ अनड्वाहः सत्यावानः सीरम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनड्वाहः सत्यावानः
सीरं कृणोतु मे वचः ।
यत्राहैतद् धिताय ते
तत् पर्जन्यो ऽभि वो वृषत् ॥

०३ दिव्या आपो वः

विश्वास-प्रस्तुतिः ...{Loading}...

दिव्या आपो वः शक्वरीर्
अनु वि यन्तु गह्वरे ।
ऊर्जस्वतीर् घृतवतीः पयस्वतीर्
दृशे भवत मा गुहा ॥

०४ उद् एहि वाजिनीवती

विश्वास-प्रस्तुतिः ...{Loading}...

उद् एहि वाजिनीवती
पूर्णपात्रा त्विषीमती ।
दुहाना पूषरक्षिता
कामम् एषां सम् आ पृण ॥

०५ इयं सीता फलवती

विश्वास-प्रस्तुतिः ...{Loading}...

इयं सीता फलवती
शतवल्शा वि रोहतु ।
इयं सहस्रभोगा
अस्या इन्द्र उपावतु ॥

०६ अश्विना फालं कल्पयताम्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्विना फालं कल्पयताम्
उपावतु बृहस्पतिः ।
यथासद् बहुधान्यम्
अयक्ष्मं बहुपूरुषम् ॥

०७ यद् वो देवा

विश्वास-प्रस्तुतिः ...{Loading}...

यद् वो देवा उपोचिर
इह भूयः स्याद् इति ।
इह ताम् उत्पृणां वयं
देवीम् उप ह्वयामहे ॥

०८ इदं म उत्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं म उत् पृणाद् इति
स्फातिं म उत् पृणाद् इति ।
राशिं मे वर्धयाद् इति ॥

०९ स्फातिकारो बहुकारः स्फिरस्फोष्ठायम्

विश्वास-प्रस्तुतिः ...{Loading}...

स्फातिकारो बहुकारः
स्फिरस्फोष्ठायम् अक्षितः ।
खलो ज्येष्ठो विभुः प्रभुः ॥

१० तस्मिन् धान्यं न्य्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मिन् धान्यं न्य् उप्यते
यवो व्रीहिर् अथो तिलः ।
तस्य गृह्णीत यत् कृतं
परिक्षाय चतुःशतम् ॥

११ शर्कारिवन् मयारवच् चक्रीवत्

विश्वास-प्रस्तुतिः ...{Loading}...

शर्कारिवन् मयारवच् (Bhatt. mayārava)
चक्रीवत् किं च यद् वृषे ।
तद् वै स्फातिर् उपायती
सर्वम् एवाति रिच्यते ॥ (Bhatt. rucyate)

१२ महाञ्जने परा जहि

विश्वास-प्रस्तुतिः ...{Loading}...

महाञ्जने परा जहि
सहस्रापोषम् अर्दय ।
बह्वी न ओषधे भव
समुद्रस्येव संस्रवः ॥