०१६

सर्वाष् टीकाः ...{Loading}...

०१ नव च या

विश्वास-प्रस्तुतिः ...{Loading}...

नव च या नवतिश्
चारूढा वक्षणा अनु ।
इतस् ताः सर्वा नश्यन्तु
नुत्ताः पुत्थज्ञो मया ॥

०२ सप्त च याः

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त च याः सप्ततिश्
चारूढा वक्षणा अनु ।
इतस् ताः सर्वा नश्यन्तु
नुत्ताः पुत्थज्ञो मया ॥

०३ पञ्च च याः

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्च च याः पञ्चाशच्
चारूढा वक्षणा अनु ।
इतस् ताः सर्वा नश्यन्तु
नुत्ताः पुत्थज्ञो मया ॥

०४ ऊरुभ्यां ते ऽष्ठीवद्भ्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊरुभ्यां ते ऽष्ठीवद्भ्यां
पार्ष्णिभ्यां भंससः ।
स्त्रिया जार इव
पुत्थज्ञीं प्र मृणीमसि ॥

०५ अनुसृप्तां गहनेषु ध्रूक्ष्णाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनुसृप्तां गहनेषु
ध्रूक्ष्णां पापीं शिमिद्वतीम् ।
ताम् एतां दस्यूनां दासीं
प्र दहातश् चुकाकणि ॥

०६ या स्त्रीणां पुत्रसदनम्

विश्वास-प्रस्तुतिः ...{Loading}...

या स्त्रीणां पुत्रसदनं
केवटान् उपसर्पति ।
ताम् एतां दस्यूनां दासीं
प्र दहातश् चुकाकणि ॥

०७ प्र पतातः सुकटनाडि

विश्वास-प्रस्तुतिः ...{Loading}...

प्र पतातः सुकटनाडि
सुषेः कुषीतको यथा ।
स्रक्वे ते तिप्रं धक्ष्यामि
सा नशिष्यसि पुत्थगि ॥

०८ यदास्याः स्रक्वे दहेद्

विश्वास-प्रस्तुतिः ...{Loading}...

यदास्याः स्रक्वे दहेद्
यदा मूर्धानम् अग्निना ।
अथैषा दस्यूनां दासी
पुत्थगि नि लयिष्यते ॥

०९ संवत्सरम् अचरो असुरेभ्यः

विश्वास-प्रस्तुतिः ...{Loading}...

संवत्सरम् अचरो
असुरेभ्यः प्रतङ्किनी ।
यत्र क्षेत्रस्य दुर्गन्धि
तत् त एतन् न्यञ्चनम् ॥

१० नैतत् तव मातरम्

विश्वास-प्रस्तुतिः ...{Loading}...

नैतत् तव मातरं स्था
न त एतन् न्यञ्चनम् ।
अस्माकम् एतद् वीरेभ्यो
देवैः प्रजननं कृतम् ॥

११ गिरौ ते ऽश्म

विश्वास-प्रस्तुतिः ...{Loading}...

गिरौ ते ऽश्म पुत्रम्
उदकं हिमवत्सु ।
तत्रोपप्रस्कद्य नृत्य्
अजामि यूथेषु पुत्थगि ॥

१२ स त्वं गोभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

स त्वं गोभिर् अश्वैः
प्रजया प्रतरं भव ।
यो मा तत्र प्राहैषीर्
यत्र जीवन्ति भद्रया ॥