सर्वाष् टीकाः ...{Loading}...
०१ यो जामदग्न्य इह
विश्वास-प्रस्तुतिः ...{Loading}...
यो जामदग्न्य इह कौशिको य
आत्रेय उत काश्यपो यः ।
भरद्वाजा गोतमा ये वसिष्ठास्
तेभ्यः प्र ब्रूम इह किल्बिषाणि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो जामदग्न्य इह कौशिको य
आत्रेय उत काश्यपो यः ।
भरद्वाजा गोतमा ये वसिष्ठास्
तेभ्यः प्र ब्रूम इह किल्बिषाणि ॥
सर्वाष् टीकाः ...{Loading}...
०२ अगस्त्ययः कण्वाः कुत्साः
विश्वास-प्रस्तुतिः ...{Loading}...
अगस्त्ययः कण्वाः कुत्साः प्रस्रवणा
विरूपा गर्गा मुद्गला यस्काः शूनकाः ।
संकृतयो ब्राह्मणा ये न द्रुग्धास्
तेभ्यः प्र ब्रूम इह किल्बिषाणि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अगस्त्ययः कण्वाः कुत्साः प्रस्रवणा
विरूपा गर्गा मुद्गला यस्काः शूनकाः ।
संकृतयो ब्राह्मणा ये न द्रुग्धास्
तेभ्यः प्र ब्रूम इह किल्बिषाणि ॥
सर्वाष् टीकाः ...{Loading}...
०३ यो नोत्तिष्ठाद् ब्राह्मणे
विश्वास-प्रस्तुतिः ...{Loading}...
यो नोत्तिष्ठाद् ब्राह्मणे नाधमाने
मान्द्येन दृप्त उत धैर्येण ।
विश्वे देवा उपद्रष्टारो ऽस्य
तस्मिन् विषं सं नयान् किल्बिष्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो नोत्तिष्ठाद् ब्राह्मणे नाधमाने
मान्द्येन दृप्त उत धैर्येण ।
विश्वे देवा उपद्रष्टारो ऽस्य
तस्मिन् विषं सं नयान् किल्बिष्यम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ या रोपयः किल्बिषे
विश्वास-प्रस्तुतिः ...{Loading}...
या रोपयः किल्बिषे ब्राह्मणस्य
यानि चैनांसि बहुधा दुष्कृतानि ।
अनुतिष्ठन् प्रोक्त आत्मनि तं नि धत्ते
तथा तद् देवा उत वेशयन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
या रोपयः किल्बिषे ब्राह्मणस्य
यानि चैनांसि बहुधा दुष्कृतानि ।
अनुतिष्ठन् प्रोक्त आत्मनि तं नि धत्ते
तथा तद् देवा उत वेशयन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०५ नाश्नीयान् न पिबेन्
विश्वास-प्रस्तुतिः ...{Loading}...
नाश्नीयान् न पिबेन् न शयीत
न निंसीत जायां नोत पुत्रम् ।
ब्रह्मकिल्बिषे प्रोक्त
उद् एव तिष्ठेत् स ऋतस्य पन्थाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नाश्नीयान् न पिबेन् न शयीत
न निंसीत जायां नोत पुत्रम् ।
ब्रह्मकिल्बिषे प्रोक्त
उद् एव तिष्ठेत् स ऋतस्य पन्थाः ॥
सर्वाष् टीकाः ...{Loading}...
०६ शतर्चिनो माध्यमा ये
विश्वास-प्रस्तुतिः ...{Loading}...
शतर्चिनो माध्यमा ये महर्षयः
क्षुद्रसूक्तानाम् उत या प्रजेह ।
ऋषीणां यानि जनिमानि विद्मस्
तेभ्यः प्र ब्रूम इह किल्बिषाणि ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतर्चिनो माध्यमा ये महर्षयः
क्षुद्रसूक्तानाम् उत या प्रजेह ।
ऋषीणां यानि जनिमानि विद्मस्
तेभ्यः प्र ब्रूम इह किल्बिषाणि ॥
सर्वाष् टीकाः ...{Loading}...
०७ सोदर्याणां पञ्चदशानां शतानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
सोदर्याणां पञ्चदशानां शतानां
त्रयस्त्रिंशद् उद् अशिष्यन्त देवाः ।
एकस्मिन् विद्धे सर्वे ऽरुप्यं
तद् ब्राह्मणे किल्बिषम् अन्व् अविन्दन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोदर्याणां पञ्चदशानां शतानां
त्रयस्त्रिंशद् उद् अशिष्यन्त देवाः ।
एकस्मिन् विद्धे सर्वे ऽरुप्यं
तद् ब्राह्मणे किल्बिषम् अन्व् अविन्दन् ॥
सर्वाष् टीकाः ...{Loading}...
०८ तस्मै स द्रुह्याद्
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मै स द्रुह्याद् य इदं नायद्
यो नोत्तिष्ठाद् यो न वदाता अस्मिन् ।
ब्राह्मणस्य किल्बिषे नाथितस्य
सोदर्यताम् इच्छतो ब्राह्मणेषु ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्मै स द्रुह्याद् य इदं नायद्
यो नोत्तिष्ठाद् यो न वदाता अस्मिन् ।
ब्राह्मणस्य किल्बिषे नाथितस्य
सोदर्यताम् इच्छतो ब्राह्मणेषु ॥
सर्वाष् टीकाः ...{Loading}...
०९ उत्तिष्ठद् ब्राह्मणाः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्तिष्ठद् ब्राह्मणाः सं वदध्वं
जीतं याचाम पुनर् ऐतु सर्वम् ।
इन्द्राग्नी विश्वे देवास्
ते मे जीतं पुनर् आ वर्तयन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्तिष्ठद् ब्राह्मणाः सं वदध्वं
जीतं याचाम पुनर् ऐतु सर्वम् ।
इन्द्राग्नी विश्वे देवास्
ते मे जीतं पुनर् आ वर्तयन्तु ॥
सर्वाष् टीकाः ...{Loading}...
१० स दीर्घम् आयुष्
विश्वास-प्रस्तुतिः ...{Loading}...
स दीर्घम् आयुष् कृणुते
स प्रजायै चिकित्सति ।
यो ब्राह्मणस्य ब्राह्मणो
हूतो अन्वेति किल्बिषे ॥
मूलम् ...{Loading}...
मूलम् (GR)
स दीर्घम् आयुष् कृणुते
स प्रजायै चिकित्सति ।
यो ब्राह्मणस्य ब्राह्मणो
हूतो अन्वेति किल्बिषे ॥
सर्वाष् टीकाः ...{Loading}...
११ नास्य प्रजां शर्वो
विश्वास-प्रस्तुतिः ...{Loading}...
नास्य प्रजां शर्वो हन्ति
न रुद्रो हन्ति नाशनिः ।
यो ब्राह्मणस्य ब्राह्मणः
सत्ये वदति किल्बिषे ॥
मूलम् ...{Loading}...
मूलम् (GR)
नास्य प्रजां शर्वो हन्ति
न रुद्रो हन्ति नाशनिः ।
यो ब्राह्मणस्य ब्राह्मणः
सत्ये वदति किल्बिषे ॥
सर्वाष् टीकाः ...{Loading}...
१२ तं सोमपीथो जुषते
विश्वास-प्रस्तुतिः ...{Loading}...
तं सोमपीथो जुषते
नृचक्षा ग्रावभिः सह ।
यो ब्राह्मणस्यास्तां हृदः
सूर्य इवापालुपत् तमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तं सोमपीथो जुषते
नृचक्षा ग्रावभिः सह ।
यो ब्राह्मणस्यास्तां हृदः
सूर्य इवापालुपत् तमः ॥
सर्वाष् टीकाः ...{Loading}...
१३ य उत्थाय किल्बिषे
विश्वास-प्रस्तुतिः ...{Loading}...
य उत्थाय किल्बिषे
ब्राह्मणस्यान्नसीच्छन्न् अवायति ।
उभे एनं द्यावापृथिवी सं तपताम्
अथैत्व् अगतस्य पन्थाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
य उत्थाय किल्बिषे
ब्राह्मणस्यान्नसीच्छन्न् अवायति ।
उभे एनं द्यावापृथिवी सं तपताम्
अथैत्व् अगतस्य पन्थाम् ॥