सर्वाष् टीकाः ...{Loading}...
०१ द्वे विरूपे चरतः
विश्वास-प्रस्तुतिः ...{Loading}...
द्वे विरूपे चरतः स्वर्थे
अन्यान्या वत्सम् उप धापयेते ।
हरिर् अन्यस्यां भवति स्वधावाञ्
छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥ (Bhatt. śukro)
मूलम् ...{Loading}...
मूलम् (GR)
द्वे विरूपे चरतः स्वर्थे
अन्यान्या वत्सम् उप धापयेते ।
हरिर् अन्यस्यां भवति स्वधावाञ्
छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥ (Bhatt. śukro)
सर्वाष् टीकाः ...{Loading}...
०२ दशेमं त्वष्टुर् जनयन्त
विश्वास-प्रस्तुतिः ...{Loading}...
दशेमं त्वष्टुर् जनयन्त गर्भम्
अतन्द्रासो युवतयो विभृत्रम् ।
तिग्मानीकं स्वयशसं जनेषु
विरोचमानं परि षीं नयन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
दशेमं त्वष्टुर् जनयन्त गर्भम्
अतन्द्रासो युवतयो विभृत्रम् ।
तिग्मानीकं स्वयशसं जनेषु
विरोचमानं परि षीं नयन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०३ त्रीणी जानात् प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
त्रीणी जानात् प्रति भूषन्त्य् अस्य
समुद्र एकं दिव्य् एकम् अप्सु ।
पूर्वाम् अनु प्र दिशं पार्थिवानाम्
ऋतून् प्रशासद् वि दधाव् अनुष्ठु ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रीणी जानात् प्रति भूषन्त्य् अस्य
समुद्र एकं दिव्य् एकम् अप्सु ।
पूर्वाम् अनु प्र दिशं पार्थिवानाम्
ऋतून् प्रशासद् वि दधाव् अनुष्ठु ॥
सर्वाष् टीकाः ...{Loading}...
०४ क इमं वो
विश्वास-प्रस्तुतिः ...{Loading}...
क इमं वो निण्यम् आ चिकेत
वत्सो मातॄर् जनयत स्वधाभिः ।
बह्वीनां गर्भो अपसाम् उपस्थान्
महान् कविर् निश् चरति स्वधावान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
क इमं वो निण्यम् आ चिकेत
वत्सो मातॄर् जनयत स्वधाभिः ।
बह्वीनां गर्भो अपसाम् उपस्थान्
महान् कविर् निश् चरति स्वधावान् ॥
सर्वाष् टीकाः ...{Loading}...
०५ आविष्ट्यो वर्धते चारुर्
विश्वास-प्रस्तुतिः ...{Loading}...
आविष्ट्यो वर्धते चारुर् आसु
जिह्मानाम् ऊर्ध्वः स्वयसाम् उपस्थे ।
उभे त्वष्टुर् बिभ्यतुर् जायमानात्
प्रतीची सिंहं प्रति जोषयेते ॥
मूलम् ...{Loading}...
मूलम् (GR)
आविष्ट्यो वर्धते चारुर् आसु
जिह्मानाम् ऊर्ध्वः स्वयसाम् उपस्थे ।
उभे त्वष्टुर् बिभ्यतुर् जायमानात्
प्रतीची सिंहं प्रति जोषयेते ॥
सर्वाष् टीकाः ...{Loading}...
०६ उभे भद्रे जोषयेते
विश्वास-प्रस्तुतिः ...{Loading}...
उभे भद्रे जोषयेते न मेने
गावो न वाश्रा उप तस्थुर् एवैः ।
स दक्षाणां दक्षपतिर् बभूव-
-अञ्जन्ति यं दक्षिणतो हविर्भिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उभे भद्रे जोषयेते न मेने
गावो न वाश्रा उप तस्थुर् एवैः ।
स दक्षाणां दक्षपतिर् बभूव-
-अञ्जन्ति यं दक्षिणतो हविर्भिः ॥
सर्वाष् टीकाः ...{Loading}...
०७ उद् यंयमीति सवितेव
विश्वास-प्रस्तुतिः ...{Loading}...
उद् यंयमीति सवितेव बाहू
उभे सिचौ यतते भीम ऋञ्जन् ।
उच् छुक्रम् अत्कम् अजते सिमस्मान्
नवा मातृभ्यो वसना जहाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् यंयमीति सवितेव बाहू
उभे सिचौ यतते भीम ऋञ्जन् ।
उच् छुक्रम् अत्कम् अजते सिमस्मान्
नवा मातृभ्यो वसना जहाति ॥
सर्वाष् टीकाः ...{Loading}...
०८ त्वेषं रूपं कृणुत
विश्वास-प्रस्तुतिः ...{Loading}...
त्वेषं रूपं कृणुत उत्तरं यत्
संपृञ्चानः सदनं गोभिर् अद्भिः ।
कविर् बुध्नं परि मर्मृज्यते धीः
सा देवताता समितिर् बभूव ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वेषं रूपं कृणुत उत्तरं यत्
संपृञ्चानः सदनं गोभिर् अद्भिः ।
कविर् बुध्नं परि मर्मृज्यते धीः
सा देवताता समितिर् बभूव ॥
सर्वाष् टीकाः ...{Loading}...
०९ उरु ते ज्रयः
विश्वास-प्रस्तुतिः ...{Loading}...
उरु ते ज्रयः पर्य् एति बुध्नं
विरोचमानं महिषस्य धाम ।
विश्वेभिर् अग्ने स्वयशोभिर् इद्धो
ऽदब्धेभिः पायुभिः पाह्य् अस्मान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उरु ते ज्रयः पर्य् एति बुध्नं
विरोचमानं महिषस्य धाम ।
विश्वेभिर् अग्ने स्वयशोभिर् इद्धो
ऽदब्धेभिः पायुभिः पाह्य् अस्मान् ॥
सर्वाष् टीकाः ...{Loading}...
१० धन्वं स्रोतः कृणुते
विश्वास-प्रस्तुतिः ...{Loading}...
धन्वं स्रोतः कृणुते गातुम् ऊर्मिं
शुक्रैर् ऊर्मिभिर् अभि नक्षति क्षाम् ।
विश्वा सनानि जठरेषु धत्ते
ऽन्तर् नवासु चरति प्रसूषु ॥
मूलम् ...{Loading}...
मूलम् (GR)
धन्वं स्रोतः कृणुते गातुम् ऊर्मिं
शुक्रैर् ऊर्मिभिर् अभि नक्षति क्षाम् ।
विश्वा सनानि जठरेषु धत्ते
ऽन्तर् नवासु चरति प्रसूषु ॥
सर्वाष् टीकाः ...{Loading}...
११ एवा नो अग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
एवा नो अग्ने समिधा वृधानो
रेवत् पावक श्रवसा वि भाहि ।
तन् नो मित्रो वरुणो मामहन्ताम्
अदितिः सिन्धुः पृथिवी उत द्यौः ॥
मूलम् ...{Loading}...
मूलम् (GR)
एवा नो अग्ने समिधा वृधानो
रेवत् पावक श्रवसा वि भाहि ।
तन् नो मित्रो वरुणो मामहन्ताम्
अदितिः सिन्धुः पृथिवी उत द्यौः ॥