०१३

सर्वाष् टीकाः ...{Loading}...

०१ समुद्राद् ऊर्मिर् मधुमाम्

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्राद् ऊर्मिर् मधुमाꣳ उद् आरद्
उपांशुना सम् अमृतत्वम् आनट् ।
घृतस्य नाम गुह्यं यद् अस्ति
जिह्वा देवानाम् अमृतस्य नाभिः ॥

०२ वयं नाम प्र

विश्वास-प्रस्तुतिः ...{Loading}...

वयं नाम प्र ब्रवामा घृतस्य-
-अस्मिन् यज्ञे धारयामा नमोभिः ।
उप ब्रह्मा शृणवच् छस्यमानं
चतुःशृङ्गो ऽवमीद् गौर एतत् ॥

०३ चत्वारि शृङ्गा त्रयो

विश्वास-प्रस्तुतिः ...{Loading}...

चत्वारि शृङ्गा त्रयो अस्य पादा
द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवीति
महो देवो मर्त्याꣳ आ विवेश ॥

०४ त्रिधा हितं पणिभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिधा हितं पणिभिर् गुह्यमानं
गवि देवासो घृतम् अन्व् अविन्दन् ।
इन्द्र एकं सूर्य एकं जजान
वेनाद् एकं स्वधया निष् टतक्षुः ॥

०५ एता अर्षन्ति हृद्यात्

विश्वास-प्रस्तुतिः ...{Loading}...

एता अर्षन्ति हृद्यात् समुद्राच्
छतव्रजा रिपुणा नावचक्षे ।
घृतस्य धारा अभि चाकशीमि
हिरण्ययो वेतसो मध्य आसाम् ॥

०६ सम्यक् स्रवन्ति सरितो

विश्वास-प्रस्तुतिः ...{Loading}...

सम्यक् स्रवन्ति सरितो न धेना
अन्तर् हृदा मनसा पूयमानाः ।
एते अर्षन्त्य् ऊर्मयो घृतस्य
मृगा इव क्षिपणोर् ईषमाणाः ॥

०७ सिन्धोर् इव प्राध्वने

विश्वास-प्रस्तुतिः ...{Loading}...

सिन्धोर् इव प्राध्वने शूघनासो
वातः प्रमीयः पतयन्ति यह्वाः ।
घृतस्य धारा अरुषो न वाजी
काष्ठा भिन्दन्न् ऊर्मिभिः पिन्वमानः ॥

०८ अभि प्रवन्त समनेव

विश्वास-प्रस्तुतिः ...{Loading}...

अभि प्रवन्त समनेव योषाः
कल्याण्यः स्मयमानासो अग्निम् ।
घृतस्य धाराः समिधो नसन्त
ता जुषाणो हर्यति जातवेदाः ॥

०९ कन्या इव वहतुम्

विश्वास-प्रस्तुतिः ...{Loading}...

कन्या इव वहतुम् एतवा उ
अञ्ज्य् अञ्जाना अभि चाकशीमि ।
यत्र सोमः सूयते यत्र यज्ञो
घृतस्य धारा अभि तत् पवन्ते ॥

१० अभ्य् अर्षत सुष्टुतिम्

विश्वास-प्रस्तुतिः ...{Loading}...

अभ्य् अर्षत सुष्टुतिं गव्यम् आजीम्
अस्मासु भद्रा द्रविणानि धत्त ।
इमं यज्ञं नयत देवता नो
घृतस्य धारा मधुमत् पवन्ते ॥

११ धामन् ते विश्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

धामन् ते विश्वं भुवनम् अधि श्रितम्
अन्तः समुद्रे हृद्य् अन्तर् आयुषि ।
अपाम् अनीकात् समिथाद् य आभृतस्
तम् अश्याम मधुमन्तं त ऊर्मिम् ॥