०१२

सर्वाष् टीकाः ...{Loading}...

०१ स्वाद्वीं त्वा मित्रावरुणा

विश्वास-प्रस्तुतिः ...{Loading}...

स्वाद्वीं त्वा मित्रावरुणा
स्वाद्वीं देवी सरस्वती ।
स्वाद्वीं त्वा अश्विना सुरे
कृणुतां पुष्करस्रजा ॥

०२ याम् असिञ्चन् सौधन्वना

विश्वास-प्रस्तुतिः ...{Loading}...

याम् असिञ्चन् सौधन्वना
विश्वे देवा मरुद्गणाः ।
याम् अश्विनासिञ्चतां
सा सुरा बहु धावतु ॥

०३ स्वादोः स्वादीयसी भव

विश्वास-प्रस्तुतिः ...{Loading}...

स्वादोः स्वादीयसी भव
मधोर् मधुतरा भव ।
यथ र्श्यस्येयम् आरिश्य्
एवा त्वं सुभगे भव ॥

०४ अभ्राज् जातं वर्षाज्

विश्वास-प्रस्तुतिः ...{Loading}...

अभ्राज् जातं वर्षाज् जातम्
अथो जातं दिवस् परि ।
अथो समुद्राज् जातं
तत् सुरादरणं भव ॥

०५ नाडी नामासि जनुषा

विश्वास-प्रस्तुतिः ...{Loading}...

नाडी नामासि जनुषा
सा सुरादरणी भव ।
सखा हि भद्रस् त आसीद्
वृक्षः स्वादुविकङ्कतः ॥

०६ असुरस् त्व् और्ध्वनभसश्

विश्वास-प्रस्तुतिः ...{Loading}...

असुरस् त्व् और्ध्वनभसश्
चकार प्रथमः सुरे ।
सुरे दासस्य त्वा गृहे
शिरश् चान्धश् च चक्रतुः ॥

०७ निष् पुष्पकं कशीकाया

विश्वास-प्रस्तुतिः ...{Loading}...

निष् पुष्पकं कशीकाया
निर् धारायाः सुराम् उत ।
उद् एहि वाजिनीवति
किम् अङ्कतिष्व् इच्छसि ॥

०८ इमे ते जन्या

विश्वास-प्रस्तुतिः ...{Loading}...

इमे ते जन्या आसते
गम्भीरा अभिधृष्णवः ।
सुरे देवि परि प्रेहि
मादयन्ती जनंजनम् ॥

०९ यस्या गृह्णन्ति स्थालेन

विश्वास-प्रस्तुतिः ...{Loading}...

यस्या गृह्णन्ति स्थालेन
गाम् अश्वं धान्यं वसु ।
सा सुरा बहु धावतु ॥

१० आचरन्तीः पर्वतेभ्यः खनमाना

विश्वास-प्रस्तुतिः ...{Loading}...

आचरन्तीः पर्वतेभ्यः
खनमाना अनभ्रयः ।
यासां समुद्रे संस्थानं
यासां नास्ति निवेशनं
तास् ते ददतु बुद्बुदम् ॥

११ उदङ्कोदचेमां सुरां याम्

विश्वास-प्रस्तुतिः ...{Loading}...

उदङ्कोदचेमां सुरां
यां हृदा कामयामहे ।
तां मे भगस् ताम् अश्विना
तां म आवाट् सरस्वती ॥

१२ अयं देवो मयूलशः

विश्वास-प्रस्तुतिः ...{Loading}...

अयं देवो मयूलशः
सा सुरादरणं ददत् ।
संस्रवणात् प्रस्रवणाद्
गिरिभ्यस् पर्य् आभृतः ।
मध्ये शतस्य मष्टिष्को
ऽनड्वान् इव मेहतु ॥