०१०

सर्वाष् टीकाः ...{Loading}...

०१ यद् अश्विना ओषधीष्व्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अश्विना ओषधीष्व्
आसिक्तं पुष्करस्रजा
वीरुधो मधु बिभ्रति ।
तेनाहम् अस्या मूर्धानम्
अभि षिञ्चामि नार्याः ॥

०२ यद् अश्विना पुष्पाद्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अश्विना पुष्पाद् अधि
माक्षिकं मधु संभृतम् ।
अन्ने लवणे यन् मधु
तेना(…) ॥ (see 1de)

०३ यद् अश्विना गुल्गुन्या

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अश्विना गुल्गुन्या-
-आञ्जने मधु संभृतं
यद् अस्मिन् मधुघे मधु ।
(…) ॥ (see 1de)

०४ यद् अश्विनाक्ष मधु

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अश्विनाक्ष मधु
गोष्व् अश्वेषु यन् मधु ।
सुरायां सिच्यमानायां
कीलाले ऽधि यन् मधु ।
तेना(…) ॥ (see 1de)

०५ यद् अश्विना गोवर्चसम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अश्विना गोवर्चसं
हिरण्यवर्चसं हस्तिवर्चसम् अश्विना ।
तेनाहम् अस्या मूर्धानम्
अभि षिञ्चामि नार्याः ॥

०६ अभि नन्दम् अभि

विश्वास-प्रस्तुतिः ...{Loading}...

अभि नन्दम् अभि मोदम्
अभि दर्पं कृणोमि ते ।
आ ते भगं वर्तयताम्
अश्विना पुष्करस्रजा ॥

०७ दत्सु ते वर्चः

विश्वास-प्रस्तुतिः ...{Loading}...

दत्सु ते वर्चः सुभगे
जिह्वायां ते मधूलकम् ।
अक्ष्यौ निकरणी तव
प्रतीकं मधुमत्तरम् ॥

०८ आ सचस्व तलाशेव

विश्वास-प्रस्तुतिः ...{Loading}...

आ सचस्व तलाशेव
वृक्ष इवापतिकः पतिम् ।
त्वं सम् अग्रभीः पुंसः
श्येन इवान्यान् पतत्रिणः ॥

०९ आ हि ते

विश्वास-प्रस्तुतिः ...{Loading}...

आ हि ते हार्षम् उदकम्
अपो भगाभिषेचनीः ।
यत् ते वर्चो ऽपक्रान्तं
मुखस्य प्रतिचक्षणात् ।
पुनस् तद् अश्विना त्वय्य्
आ धत्तां पुष्करस्रजा ॥

१० अभि त्वा वर्चसासिचम्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि त्वा वर्चसासिचं
दिव्येन पयसा सह ।
यथा पतिवत्न्य् असो
देवृग्भ्यो मधुमत्तरा ॥

११ भगं ते मित्रावरुणा

विश्वास-प्रस्तुतिः ...{Loading}...

भगं ते मित्रावरुणा
भगं देवी सरस्वती ।
भगं ते अश्विनोभा-
-आ धत्तां पुष्करस्रजा ॥

१२ पतिं ते राजा

विश्वास-प्रस्तुतिः ...{Loading}...

पतिं ते राजा वरुणः
पतिं देवो बृहस्पतिः ।
पतिं त इन्द्रश् चाग्निश् च
पतिं धाता दधातु ते ॥