००७

सर्वाष् टीकाः ...{Loading}...

०१ मोक्षेजांस् तोदांस् तुमलान्

विश्वास-प्रस्तुतिः ...{Loading}...

मोक्षेजांस् तोदांस् तुमलान्
पथिष्ठाँ उत पार्षतान् ।
अहीनां सर्वेषां विषम्
अरसं कृण्व् ओषधे ॥

०२ अश्वक्रन्दस्य वण्डस्य पृदाकोर्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वक्रन्दस्य वण्डस्य
पृदाकोर् गोनसेर् उत ।
श्वित्राणां सर्वेषां विषम्
अरसं कृण्व् ओषधे ॥

०३ द्याम्पातस्य गवकस्य गोधापृष्ठेर्

विश्वास-प्रस्तुतिः ...{Loading}...

द्यांपातस्य गवकस्य
गोधापृष्ठेर् अहेर् उत ।
असितानाम् एतज् जातम्
अरिष्टे ऽरसं कृधि ॥

०४ एतज् जातं स्वजानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

एतज् जातं स्वजानां
तद् बभ्रो अरसं कृधि ।
सर्वस्य बभ्रोर् भेषज्य्
असीह विषदूषणी ॥ +++(asīha with Kim 2014, 64, Bhatt./Or. asī hi)+++

०५ त्रायमाणा प्र ब्रवीतु

विश्वास-प्रस्तुतिः ...{Loading}...

त्रायमाणा प्र ब्रवीतु
सर्वाङ् राज्ञो अहीनाम् ।
तिरश्चिराजीन् असितान्
अथो उपशयाश् च ये ॥

०६ सहसाहं यातुधानान् सहसा

विश्वास-प्रस्तुतिः ...{Loading}...

सहसाहं यातुधानान्
सहसा यातुधान्यः ।
सहो वः सर्वान् सासाह
तस्याहं नाम जग्रभ ॥

०७ सहः साकं पैद्वेन

विश्वास-प्रस्तुतिः ...{Loading}...

सहः साकं पैद्वेन-
-उग्रेण वचसा मम ।
अन्धाहींश् च सृजयाश् च
शफकांश् च रथव्रयः ।
सहसा सह उत्पत्य
तान् सर्वाँ अरसाँ अकः ॥

०८ असितस्य विद्रधस्य हरितो

विश्वास-प्रस्तुतिः ...{Loading}...

असितस्य विद्रधस्य
हरितो यश् च विद्रधः ।
निमङ्क्षी विद्रधानां यो
मृजन्ती ताँ अजीजभत् ॥

०९ यः स्वजानां नीलग्रीवो

विश्वास-प्रस्तुतिः ...{Loading}...

यः स्वजानां नीलग्रीवो
यः स्वजानां हरिर् उत ।
कल्माषपुच्छम् ओषधे
जम्भयास्य् अरुन्धति ॥

१० मायं मरद् अहिदष्टः

विश्वास-प्रस्तुतिः ...{Loading}...

मायं मरद् अहिदष्टः
पितुर् अस्मा असद् विषम् ।
इमा ह्य् अस्मा ओषधिम्
आ हराम्य् अरुन्धतीम् ॥

११ एतज् जातं पृदाकूनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

एतज् जातं पृदाकूनाम्
अरसं जीवले कृधि ।
इन्द्रस्य भद्रिका वीरुद्
असीह विषदूषणी ॥ +++(asīha see Kim 2014, 64; Bhatt. asī hi)+++