००६

सर्वाष् टीकाः ...{Loading}...

०१ आ पश्यसि प्रति

विश्वास-प्रस्तुतिः ...{Loading}...

आ पश्यसि प्रति पश्यसि
परा पश्यसि पश्यसि ।
द्याम् अन्तरिक्षम् आद् भूमिं
तत् सर्वं देवि पश्यसि ॥

०२ तिस्रो दिवस् तिस्रः

विश्वास-प्रस्तुतिः ...{Loading}...

तिस्रो दिवस् तिस्रः पृथिवीः
षट् चेमः प्रदिशो महीः ।
तयाहं सर्वान् यातून्
पश्यानि देव्य् ओषधे ॥

०३ सुपर्णस्य दिव्यस्य तस्य

विश्वास-प्रस्तुतिः ...{Loading}...

सुपर्णस्य दिव्यस्य
तस्य हासि कनीनिका ।
सा भूमिम् आ रुरोहिथ
वह्यं श्रान्ता वधूर् इव ॥

०४ तां मे सहस्राक्षो

विश्वास-प्रस्तुतिः ...{Loading}...

तां मे सहस्राक्षो देवो
दक्षिणे हस्त आ दधत् ।
तयाहं सर्वं पश्यामि
यद् भूतं यच् च भाव्यम् ॥

०५ यथा श्वा चतुरक्षो

विश्वास-प्रस्तुतिः ...{Loading}...

यथा श्वा चतुरक्षो
यथाश्वः श्यावो ऽर्वताम् ।
यथाग्निर् विश्वतः प्रत्यङ्ङ् +++(Bhatt. pratyaṅ)+++
एवा त्वम् अस्य् ओषधे ॥

०६ कश्यपस्य चक्षुर् असि

विश्वास-प्रस्तुतिः ...{Loading}...

कश्यपस्य चक्षुर् असि
शुन्याश् चतुरक्ष्याः ।
वीध्रे सूर्यम् इव सर्पन्तं
मा पिशाचं तिरस् करः ॥

०७ दर्शय मा यातुधानान्

विश्वास-प्रस्तुतिः ...{Loading}...

दर्शय मा यातुधानान्
दर्शय यातुधान्यः ।
आपस्पृत इव तिष्ठन्तं
दर्शय मा किमीदिनम् ॥

०८ उद् अग्रभं परिपाणम्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् अग्रभं परिपाणं
यातुधानात् किमीदिनः ।
तेनाहं सर्वं पश्यान्य्
उत शूद्रम् उतार्यम् ॥

०९ यथा सूर्यश् चन्द्रमाश्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सूर्यश् चन्द्रमाश् च
विश्वा भूता विपश्यतः ।
एवा वि पश्य तान् त्वम्
अघायुर् मोप गाद् इह ॥

१० यो अन्तरिक्षेण पतति

विश्वास-प्रस्तुतिः ...{Loading}...

यो अन्तरिक्षेण पतति
भूमिं यश् चोपसर्पति ।
दिवं यो मन्यते नाथं
तं पिशाचं दृशे कुरु ॥

११ आविष् कृणुष्व रूपाणि

विश्वास-प्रस्तुतिः ...{Loading}...

आविष् कृणुष्व रूपाणि
मात्मानम् अप गूहथाः ।
अधा सहस्रचक्षो त्वं
प्रति पश्यास्य् आयतः ॥