सर्वाष् टीकाः ...{Loading}...
०१ यद् आञ्जनं त्रैककुदम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् आञ्जनं त्रैककुदं
जातं हिमवतस् परि ।
यातूंश् च सर्वान् जम्भया
सर्वाश् च यातुधान्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् आञ्जनं त्रैककुदं
जातं हिमवतस् परि ।
यातूंश् च सर्वान् जम्भया
सर्वाश् च यातुधान्यः ॥
सर्वाष् टीकाः ...{Loading}...
०२ उतेवासि परिपाणं यातुजम्भनम्
विश्वास-प्रस्तुतिः ...{Loading}...
उतेवासि परिपाणं
यातुजम्भनम् आञ्जन ।
उतामृतत्वस्येशिष
उतासि पितुभोजनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उतेवासि परिपाणं
यातुजम्भनम् आञ्जन ।
उतामृतत्वस्येशिष
उतासि पितुभोजनम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ परिपाणं पुरुषाणां परिपाणम्
विश्वास-प्रस्तुतिः ...{Loading}...
परिपाणं पुरुषाणां
परिपाणं गवाम् असि ।
अश्वानाम् अर्वताम् इत्
परिपाणाय तस्थिषे ॥
मूलम् ...{Loading}...
मूलम् (GR)
परिपाणं पुरुषाणां
परिपाणं गवाम् असि ।
अश्वानाम् अर्वताम् इत्
परिपाणाय तस्थिषे ॥
सर्वाष् टीकाः ...{Loading}...
०४ परि मां परि
विश्वास-प्रस्तुतिः ...{Loading}...
परि मां परि णः प्रियं
परि णः पाहि यद् धनम् ।
अरातिर् इन् नो मा तारीन्
मा च नः किं चनाममत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
परि मां परि णः प्रियं
परि णः पाहि यद् धनम् ।
अरातिर् इन् नो मा तारीन्
मा च नः किं चनाममत् ॥
सर्वाष् टीकाः ...{Loading}...
०५ न तं प्राप्नोति
विश्वास-प्रस्तुतिः ...{Loading}...
न तं प्राप्नोति शपथो
न कृत्या नाभिशोचनम् ।
नैनं विष्कन्धम् अश्नुते
यस् त्वा बिभर्त्य् आञ्जन ॥
मूलम् ...{Loading}...
मूलम् (GR)
न तं प्राप्नोति शपथो
न कृत्या नाभिशोचनम् ।
नैनं विष्कन्धम् अश्नुते
यस् त्वा बिभर्त्य् आञ्जन ॥
सर्वाष् टीकाः ...{Loading}...
०६ आसन् मन्त्र्याद् दुष्वप्न्यात्
विश्वास-प्रस्तुतिः ...{Loading}...
आसन् मन्त्र्याद् दुष्वप्न्यात्
क्षेत्रियाच् छपथाद् उत ।
दुर्हार्दश् चक्षुषो घोरात्
तस्मान् नः पाह्य् आञ्जन ॥
मूलम् ...{Loading}...
मूलम् (GR)
आसन् मन्त्र्याद् दुष्वप्न्यात्
क्षेत्रियाच् छपथाद् उत ।
दुर्हार्दश् चक्षुषो घोरात्
तस्मान् नः पाह्य् आञ्जन ॥
सर्वाष् टीकाः ...{Loading}...
०७ त्रयो दासा आञ्जनस्य
विश्वास-प्रस्तुतिः ...{Loading}...
त्रयो दासा आञ्जनस्य
तक्मा बलास आद् अहिः ।
वर्षिष्ठः पर्वतानां
त्रिककुन् नाम ते पिता ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रयो दासा आञ्जनस्य
तक्मा बलास आद् अहिः ।
वर्षिष्ठः पर्वतानां
त्रिककुन् नाम ते पिता ॥
सर्वाष् टीकाः ...{Loading}...
०८ वृत्रस्यासि कनीनिका पर्वतस्यास्य्
विश्वास-प्रस्तुतिः ...{Loading}...
वृत्रस्यासि कनीनिका
पर्वतस्यास्य् अक्ष्यौ ।
देवेभिः सर्वैः प्रोक्तं
परिधिर् नाम वा असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृत्रस्यासि कनीनिका
पर्वतस्यास्य् अक्ष्यौ ।
देवेभिः सर्वैः प्रोक्तं
परिधिर् नाम वा असि ॥
सर्वाष् टीकाः ...{Loading}...
०९ वैदो ह वेद
विश्वास-प्रस्तुतिः ...{Loading}...
वैदो ह वेद ते नाम
गन्धर्वः परिवाचनम् ।
यत आञ्जन प्रजायसे
तत एह्य् अरिष्टतातये ॥
मूलम् ...{Loading}...
मूलम् (GR)
वैदो ह वेद ते नाम
गन्धर्वः परिवाचनम् ।
यत आञ्जन प्रजायसे
तत एह्य् अरिष्टतातये ॥
सर्वाष् टीकाः ...{Loading}...
१० यदि वासि त्रैककुदम्
विश्वास-प्रस्तुतिः ...{Loading}...
यदि वासि त्रैककुदं
यदि यामुनम् उच्यसे ।
उभे ते भद्रे नाम्नी
ताभ्यां नः पाह्य् आञ्जन ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदि वासि त्रैककुदं
यदि यामुनम् उच्यसे ।
उभे ते भद्रे नाम्नी
ताभ्यां नः पाह्य् आञ्जन ॥
सर्वाष् टीकाः ...{Loading}...
११ यस्याञ्जन प्रसर्पस्य् अङ्गमङ्गम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्याञ्जन प्रसर्पस्य्
अङ्गमङ्गं परुष्परुः ।
तस्माद् यक्ष्मं वि बाधस्व-
-उग्रो मध्यमशीर् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्याञ्जन प्रसर्पस्य्
अङ्गमङ्गं परुष्परुः ।
तस्माद् यक्ष्मं वि बाधस्व-
-उग्रो मध्यमशीर् इव ॥
सर्वाष् टीकाः ...{Loading}...
१२ नैनं घ्नन्ति पर्यायिणो
विश्वास-प्रस्तुतिः ...{Loading}...
नैनं घ्नन्ति पर्यायिणो
न सन्नाँ अव गच्छति ।
जने स न प्र मीयते
यस् त्वा बिभर्त्य् आञ्जन ॥
मूलम् ...{Loading}...
मूलम् (GR)
नैनं घ्नन्ति पर्यायिणो
न सन्नाँ अव गच्छति ।
जने स न प्र मीयते
यस् त्वा बिभर्त्य् आञ्जन ॥
सर्वाष् टीकाः ...{Loading}...
१३ इदं विद्वान् आञ्जन
विश्वास-प्रस्तुतिः ...{Loading}...
इदं विद्वान् आञ्जन
सत्यं वक्ष्यामि नानृतम् ।
सनेयम् अश्वं गां वास
आत्मानं तव पूरुष ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं विद्वान् आञ्जन
सत्यं वक्ष्यामि नानृतम् ।
सनेयम् अश्वं गां वास
आत्मानं तव पूरुष ॥