००२

सर्वाष् टीकाः ...{Loading}...

०१ वृषा मे रवो

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा मे रवो नभसा न तन्यतुर्
उग्रेण तं वचसा बाध इद् उ ते ।
अहं तम् अस्य ग्रभिर् अग्रभं रसं
ज्योतिषेव तमस उद् एति सूर्यः ॥

०२ यत् ते ऽपोदकम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते ऽपोदकं विषं
तत् त आत् ताभिर् अग्रभम् ।
गृह्णामि मध्यम् उत्तमम्
उतावमं भियसा नेशद् आद् उ ते ॥

०३ बलेन ते बलम्

विश्वास-प्रस्तुतिः ...{Loading}...

बलेन ते बलं हन्मि
तन्वा हन्मि ते तनुम् ।
विषेण हन्मि ते विषम्
अहे मृषीष्ठा मा जीवीः (see Kim 2014, 17; Bhatt. muriṣṭā, jīvīt)
प्रत्यग् अभ्य् एतु त्वा विषम् ॥

०४ असितस्य तैमातस्य बभ्रोर्

विश्वास-प्रस्तुतिः ...{Loading}...

असितस्य तैमातस्य
बभ्रोर् अपोदकस्य च ।
सात्रासाहस्य मन्योर् ज्याम्
उग्रस्येव धन्वनो
वि मुञ्चामि रथाꣳ इव ॥

०५ कैलात पृश्न उपतृण्य

विश्वास-प्रस्तुतिः ...{Loading}...

कैलात पृश्न उपतृण्य बभ्रव्
आ मे शृणुतासिता अलीकाः ।
मा नः सख्युः कामम् अपि ष्ठाद्
आश्रावयाद्धो वीर्षे रमध्वम् ॥

०६ आलिकि च विलि

विश्वास-प्रस्तुतिः ...{Loading}...

आलिकि च विलि पिता
यस् ते माता च ।
विद्म ते विश्वतो बन्धुम्
अरस किं करिष्यसि ॥

०७ उरुगूलाया दुहिता जाता

विश्वास-प्रस्तुतिः ...{Loading}...

उरुगूलाया दुहिता
जाता दास्य् असिक्न्याः ।
प्रतङ्कं दद्रुषी नु
साहीन् अरसाꣳ अकः ॥

०८ कर्णा श्वाविद् अब्रवीद्

विश्वास-प्रस्तुतिः ...{Loading}...

कर्णा श्वाविद् अब्रवीद्
गिरेर् अवचरन्तिका ।
याः काश् चेमाः खनित्रिमास्
तासाम् अरसतमं विषम् ॥

०९ ताबुवं न ताबुवम्

विश्वास-प्रस्तुतिः ...{Loading}...

ताबुवं न ताबुवं
न घेद् असि त्वं ताबुवम् ।
ताबुवेनारसं विषम् ॥

१० तस्तुवं न तस्तुवम्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्तुवं न तस्तुवं
न घेद् असि त्वं तस्तुवम् ।
तस्तुवेनारसं विषम् ॥

११ अरसं ते ऽहे

विश्वास-प्रस्तुतिः ...{Loading}...

अरसं ते ऽहे विषम्
इयं कृणोत्व् ओषधिः ।
त्रायमाणा सहमाना सहस्वती
सहाता इद् गोर् अश्वात् पुरुषाद् विषम् ॥