०१९

सर्वाष् टीकाः ...{Loading}...

०१ आङ्गिरसो जन्मनासि तम्

विश्वास-प्रस्तुतिः ...{Loading}...

आङ्गिरसो जन्मनासि
तम् उ त्वाहुर् वनस्पते ।
स पीलो रक्षो बाधस्व
साकम् इन्द्रेण मेदिना ॥

०२ अप रक्षांसि बाधस्व

विश्वास-प्रस्तुतिः ...{Loading}...

अप रक्षांसि बाधस्व
बाधस्व परिरापिणः ।
पिशाचान् पीलो क्रव्यादो
बाधस्व मूरदेविनः ॥

०३ ययाहुस् तृष्टं कटुकम्

विश्वास-प्रस्तुतिः ...{Loading}...

ययाहुस् तृष्टं कटुकम्
अपगूढं फले कुलम् ।
तस्यै हिरण्यकेश्यै
नमः कृण्मो अरातये ॥

०४ या महती महोन्माना

विश्वास-प्रस्तुतिः ...{Loading}...

या महती महोन्माना
सर्वा आशा व्यानशे ।
तस्यै हिरण्यकेश्यै
नमः कृण्मो अरातये ॥

०५ यस् ते योनिम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते योनिं प्रतिरेढ्य्
आण्डादो गर्भदूषणः ।
अरायं पुत्रं प्रापी यस्
तं पीलुः सहताम् इतः ॥

०६ यदा पीलव् आङ्गिरस

विश्वास-प्रस्तुतिः ...{Loading}...

यदा पीलव् आङ्गिरस
पक्वो ऽतिष्ठो वनस्पते ।
अथाहुर् इन्द्रं जज्ञानं
शक्रं बर्जह्ये प्रति ॥

०७ यथा सेदिम् अबाधथाः

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सेदिम् अबाधथाः
पच्यमानो वनस्पते ।
एवा पीलो रक्षो बाधस्व
साकम् इन्द्रेण मेदिना ॥

०८ यत् पिशाचैः पुरुषस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यत् पिशाचैः पुरुषस्य
जग्धं भवत्य् आत्मनः ।
आ पीलो प्यायते पुनस्
तव चाश्नाति पिप्पलम् ॥

०९ पीलुं त्वाहुः पीवम्

विश्वास-प्रस्तुतिः ...{Loading}...

पीलुं त्वाहुः पीवं त्वाहुर्
अथो त्वाहुर् वनस्पतिम् ।
सर्वा ते भद्रा नामानि
तेभिर् नः पाह्य् अंहसः ॥

१० रक्षोहणं वृत्रहणं पीलुम्

विश्वास-प्रस्तुतिः ...{Loading}...

रक्षोहणं वृत्रहणं
पीलुं पिशाचजम्भनम् ।
जज्ञानम् अग्रे वृक्षाणां
तं ते बध्नाम्य् आयुषे ॥