०१६

सर्वाष् टीकाः ...{Loading}...

०१ अग्निर् मा पातु

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् मा पातु वसुभिः पुरस्तात्
तस्मिन् क्रमे तस्मिं श्रये
तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु
तस्मा आत्मानं परि ददे स्वाहा ॥

०२ वायुर् मान्तरिक्षेणैतस्या दिशः

विश्वास-प्रस्तुतिः ...{Loading}...

वायुर् मान्तरिक्षेणैतस्या दिशः पातु
तस्मिन् (…) ॥

०३ सोमो मा रुद्रैर्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो मा रुद्रैर् दक्षिणाया दिशः (…) ॥

०४ वरुणो मादित्यैर् एतस्या

विश्वास-प्रस्तुतिः ...{Loading}...

वरुणो मादित्यैर् एतस्या दिशः (…) ॥

०५ सूर्यो मा द्यावापृथिवीभ्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु
तस्मिन् क्रमे तस्मिं श्रये
तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु
तस्मा आत्मानं परि ददे स्वाहा ॥

०६ अपो मौषधीमतीर् एतस्या

विश्वास-प्रस्तुतिः ...{Loading}...

अपो मौषधीमतीर् एतस्या दिशः पान्तु
तासु क्रमे तासु श्रये
तां पुरं प्रैमि ।
ता मा रक्षन्तु ता मा गोपायन्तु
ताभ्य आत्मानं परि ददे स्वाहा ॥

०७ विश्वकर्मा मा सप्तर्षिभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वकर्मा मा सप्तर्षिभिर् उदीच्या दिशः (…) ॥

०८ इन्द्रो मा मरुत्वान्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो मा मरुत्वान् एतस्या दिशः (…) ॥

०९ प्रजापतिर् मा प्रजननवान्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिर् मा प्रजननवान् सह प्रतिष्ठया ध्रुवाया दिशः (…) ॥

१० बृहस्पतिर् मा विश्वैर्

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिर् मा विश्वैर् देवैर् ऊर्ध्वाया दिशः पातु
तस्मिन् क्रमे तस्मिं श्रये
तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु
तस्मा आत्मानं परि ददे स्वाहा ॥