०१५

सर्वाष् टीकाः ...{Loading}...

०१ दक्षिणा मा दक्षिणतो

विश्वास-प्रस्तुतिः ...{Loading}...

दक्षिणा मा दक्षिणतो
दक्षिणा पातु सव्यतः ।
पश्चाद् अनुव्याधात् पातु
सर्वस्या भवहेत्याः ॥

०२ पशुना त्वं पशुपते

विश्वास-प्रस्तुतिः ...{Loading}...

पशुना त्वं पशुपते
द्विपाद् दत्त्वा चतुष्पदा ।
आत्मन्वतीं दक्षिणां
प्राणं दत्त्वा प्राणिहि ॥

०३ यां ददासि श्रद्दधानो

विश्वास-प्रस्तुतिः ...{Loading}...

यां ददासि श्रद्दधानो
दक्षिणां ब्राह्मणकृते ।
सा त्वा यक्ष्मात् पारयत्व्
अग्नेः संतापाद् दिव्यस्य शोकात् ॥

०४ ददासीमां दक्षिणां मा

विश्वास-प्रस्तुतिः ...{Loading}...

ददासीमां दक्षिणां मा त आममच्
छल्यान् यक्ष्मान् वि वृहामो वयं ते ।
कर्णशूलम् उपहत्या अरातीः
सर्वे यक्ष्मा अप तिष्ठन्तु साकम् ॥

०५ अन्नेन प्राणं वनुते

विश्वास-प्रस्तुतिः ...{Loading}...

अन्नेन प्राणं वनुते
तिरो धत्ते परिधानेन यक्ष्मम् ।
हिरण्यम् अश्वं गां ददत्
कृणुते वर्म दक्षिणाम् ॥

०६ उष्णीषं त्वा शीर्षक्त्या

विश्वास-प्रस्तुतिः ...{Loading}...

उष्णीषं त्वा शीर्षक्त्या
वासस् त्वा तन्वामयात् ।
चन्द्रं हिरण्यम् अन्ध्यात्
कर्णाद् दत्तं शुक्रं भ्राजद्
बाधिर्यात् पातु दक्षिणा ॥

०७ उपबर्हणं त्वा ग्रीवामयान्

विश्वास-प्रस्तुतिः ...{Loading}...

उपबर्हणं त्वा ग्रीवामयान्
मणयो यक्ष्माद् दत्क्रव्यात् ।
अङ्गरोगाद् अभ्यञ्जनम्
अन्नं त्वान्तष्ट्यामयात् ॥

०८ अधस्पदाद् आमयतः पदो

विश्वास-प्रस्तुतिः ...{Loading}...

अधस्पदाद् आमयतः
पदो रोगाद् उपानहौ ।
दण्डस् त्वा दत्तः परि पातु सर्पाद्
दक्षिणतः प्रयतो दक्षिणेन ॥

०९ सौमनसं दक्षिणां दक्षमाणा

विश्वास-प्रस्तुतिः ...{Loading}...

सौमनसं दक्षिणां दक्षमाणा
इषम् ऊर्जं दक्षिणां संवसानाः ।
भगस्य धाराम् अवसे प्रतीमः ॥

१० सहस्राङ्गा शतं ज्योतींष्य्

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्राङ्गा शतं ज्योतींष्य् अस्या
यज्ञस्य पप्रिर् अमृता स्वर्गा ।
आ न एतु दक्षिणा विश्वरूपा-
-अहिंसन्तीं प्रति गृह्णीम एनाम् ॥