०१३

सर्वाष् टीकाः ...{Loading}...

०१ यासाम् आराद् आघोषामो

विश्वास-प्रस्तुतिः ...{Loading}...

यासाम् आराद् आघोषामो
वातस्येव पृथग् यतः ।
तासां श्वन्वतीनाम्
इन्द्रो अपि कृतच् छिरः ॥

०२ याः पुरस्ताद् आचरन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

याः पुरस्ताद् आचरन्ति
साकं सूर्यस्य रश्मिभिः (…) ॥

०३ या वातम् अनुसंयन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

या वातम् अनुसंयन्त्य्
अन्तरिक्षे अधो दिवः (…) ॥

०४ यासां प्रेङ्खो दिवि

विश्वास-प्रस्तुतिः ...{Loading}...

यासां प्रेङ्खो दिवि बद्धो
अन्तरिक्षे हिरण्ययः (…) ॥

०५ यास् तल्पान् अनुनृत्यन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यास् तल्पान् अनुनृत्यन्त्य्
अन्तरिक्षे हिरण्ययान् (…) ॥

०६ याः पतन्ति वातरथा

विश्वास-प्रस्तुतिः ...{Loading}...

याः पतन्ति वातरथा
उत्तानाः पादघातिनीः (…) ॥

०७ या वृक्षं परिसर्पन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

या वृक्षं परिसर्पन्ति
साच्य् अक्षी करिक्रतीः (…) ॥

०८ याश् चत्वरे सङ्गच्छन्ते

विश्वास-प्रस्तुतिः ...{Loading}...

याश् चत्वरे संगच्छन्ते
विकुम्बाश् चेलवासिनीः (…) ॥

०९ यासां सिकतवापिषु गृहो

विश्वास-प्रस्तुतिः ...{Loading}...

यासां सिकतवापिषु
गृहो मितो हिरण्ययः (…) ॥

१० या आरोकैः प्रपद्यन्ते

विश्वास-प्रस्तुतिः ...{Loading}...

या आरोकैः प्रपद्यन्ते
पुष्करैर् इव जामयः (…) ॥

११ या नदीः प्रतिगाहन्ते

विश्वास-प्रस्तुतिः ...{Loading}...

या नदीः प्रतिगाहन्ते
संरभ्य कन्या इव (…) ॥

१२ यास् तीर्थानि विगाहन्ते

विश्वास-प्रस्तुतिः ...{Loading}...

यास् तीर्थानि विगाहन्ते
ऽघ्न्याः श्वसतीर् इव (…) ॥

१३ याः समुद्राद् उच्चरन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

याः समुद्राद् उच्चरन्त्य्
उच्चैर् घोषान् करिक्रतीः (…) ॥

१४ या गच्छन्ति जनञ्जनम्

विश्वास-प्रस्तुतिः ...{Loading}...

या गच्छन्ति जनंजनम्
इच्छन्तीः प्रयुतं बहु ।
तासां श्वन्वतीनाम्
इन्द्रो अपि कृतच् छिरः ॥