०१२

सर्वाष् टीकाः ...{Loading}...

०१ एकराज्ञीम् एकव्रताम् एकस्थाम्

विश्वास-प्रस्तुतिः ...{Loading}...

एकराज्ञीम् एकव्रताम्
एकस्थाम् एकलामिकाम् ।
पाटां सपत्नचातनीं
जैत्रायाच्छा वदामसि ॥

०२ एकराज्ञ्य् एकव्रत एकस्थ

विश्वास-प्रस्तुतिः ...{Loading}...

एकराज्ञ्य् एकव्रत
एकस्थ एकलामिके ।
न त्वा सपत्नी सासाह
गैरेयी च न बाह्या ॥

०३ उत्तराहम् उत्तराभ्य उत्तरेद्

विश्वास-प्रस्तुतिः ...{Loading}...

उत्तराहम् उत्तराभ्य
उत्तरेद् अधराभ्यः ।
अधः सपत्नी मामक्य्
अधरेद् अधराभ्यः ॥

०४ न सैन्धवस्य पुष्पस्य

विश्वास-प्रस्तुतिः ...{Loading}...

न सैन्धवस्य पुष्पस्य
सूर्यो म्लापयति त्वचम् ।
पाटे ऽम्लातया त्वया
सपत्न्या वर्च आ ददे ॥

०५ न वै पाटे

विश्वास-प्रस्तुतिः ...{Loading}...

न वै पाटे पाटेवासि
सुभागंकरणीद् असि ।
पाटे भगस्य नो धेह्य्
अथो मा महिषीं कृणु ॥

०६ यत् पाटे अधि

विश्वास-प्रस्तुतिः ...{Loading}...

यत् पाटे अधि वृक्षे
वातप्लवा महीयसे ।
जयन्ती प्रत्यातिष्ठन्ती
संजया नाम वा असि ॥

०७ उत्तानपर्णां सुभगां सहमानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

उत्तानपर्णां सुभगां
सहमानां सहस्वतीम् ।
अच्छा बृहद्वदां वद
पाटां सपत्नचातनीम् ॥

०८ पाटाम् इन्द्रो व्य्

विश्वास-प्रस्तुतिः ...{Loading}...

पाटाम् इन्द्रो व्य् आश्नाद्
धन्तवा असुरेभ्यः ।
तयाहं सपत्नीं साक्षीय
महेन्द्रो दानवान् इव ॥

०९ पाटा बिभर्त्य् अङ्कुशम्

विश्वास-प्रस्तुतिः ...{Loading}...

पाटा बिभर्त्य् अङ्कुशं
हिरण्यवन्तम् अङ्किनम् ।
तेन सपत्न्या वर्च
आ लुम्पामि ममेद् असत् ॥

१० इमां खनाम्य् ओषधिम्

विश्वास-प्रस्तुतिः ...{Loading}...

इमां खनाम्य् ओषधिं
वीरुधां बलवत्तमाम् ।
यया सपत्नीं बाधते
कृणुते केवलं पतिम् ॥