०११

सर्वाष् टीकाः ...{Loading}...

०१ ये पर्वताः सोमपृष्ठा

विश्वास-प्रस्तुतिः ...{Loading}...

ये पर्वताः सोमपृष्ठा
आप उत्तानशीवरीः ।
वातः पर्जन्य आद् अग्निस्
ते क्रव्यादम् अशीशमन् ॥

०२ यस् ते हन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते हन्ति चराचरम्
उत्थास्यन्तं सरीसृपम् ।
गर्भं यो दशमास्यं
तम् इतो नाशयामसि ॥

०३ यदि घ्नन्त्य् अप्सरसो

विश्वास-प्रस्तुतिः ...{Loading}...

यदि घ्नन्त्य् अप्सरसो
गन्धर्वा गेह्या उत ।
क्रव्यादो मूरदेविनस्
तान् इतो नाशयामसि ॥

०४ यस् त ऊरू

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त ऊरू आरोहत्य्
असृक् ते रेहणाय कम् ।
आमादः क्रव्यादो रिपूंस्
तान् इतो नाशयामसि ॥

०५ यस् ते श्रोणी

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते श्रोणी च्यावयत्य्
अन्तरा दम्पती शये ।
योनिं यो अन्तर् आरेढि
तम् इतो नाशयामसि ॥

०६ यस् त्वा स्वप्नेन

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा स्वप्नेन तमसा
मोहयित्वा निपद्यते ।
प्रजां यस् ते जिघत्सति
तम् (…) ॥

०७ यस् त्वा पत्युः

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा पत्युः प्रतिरूपो
जारो भूत्वा निपद्यते ।
अरायं कण्वं पाप्मानं
तम् इतो नाशयामसि ॥

०८ हा है खर्व

विश्वास-प्रस्तुतिः ...{Loading}...

हा है खर्व खलते
नैगूरकर्ण तुण्डिल ।
इन्द्रस्य तिग्मम् आयुधं
तेन त्वा नाशयामसि ॥

०९ नमस् तण्डाय नमः

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् तण्डाय नमः कुसुमाय
नमः प्रतिपाव्ने नमः कःस्वधेये ।
नमस् तुभ्यं निरृते विश्ववारे
जरेमं धापयतां विश्वरूपा ॥

१० यावद् द्यौर् यावत्

विश्वास-प्रस्तुतिः ...{Loading}...

यावद् द्यौर् यावत् पृथिवी
यावत् पर्येति सूर्यः ।
तावत् त्वम् उग्र गुल्गुलो
परीमां पाहि विश्वतः ॥