सर्वाष् टीकाः ...{Loading}...
०१ ऐतु देवस् त्रायमाणः
विश्वास-प्रस्तुतिः ...{Loading}...
ऐतु देवस् त्रायमाणः
कुष्ठो हिमवतस् परि ।
तक्मानं सर्वं नाशयन्
सर्वाश् च यातुधान्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऐतु देवस् त्रायमाणः
कुष्ठो हिमवतस् परि ।
तक्मानं सर्वं नाशयन्
सर्वाश् च यातुधान्यः ॥
सर्वाष् टीकाः ...{Loading}...
०२ त्रीणि ते कुष्ठ
विश्वास-प्रस्तुतिः ...{Loading}...
त्रीणि ते कुष्ठ नामानि
नघमारो नघारिषो नघायुषो
न घायं पुरुषो रिषत् ।
यस्मै परिब्रवीमि त्वा
सायंप्रातर् अथो दिवा ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रीणि ते कुष्ठ नामानि
नघमारो नघारिषो नघायुषो
न घायं पुरुषो रिषत् ।
यस्मै परिब्रवीमि त्वा
सायंप्रातर् अथो दिवा ॥
सर्वाष् टीकाः ...{Loading}...
०३ जीवला नाम ते
विश्वास-प्रस्तुतिः ...{Loading}...
जीवला नाम ते माता
जीवन्तो नाम ते पिता
मारिषा नाम ते स्वसा
न (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
जीवला नाम ते माता
जीवन्तो नाम ते पिता
मारिषा नाम ते स्वसा
न (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ उत्तमो ऽस्य् ओषधीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्तमो ऽस्य् ओषधीनाम्
अनड्वाञ् जगताम् इव
व्याघ्रः श्वपदाम् इव
न घायं पुरुषो रिषत् ।
यस्मै परिब्रवीमि त्वा
सायंप्रातर् अथो दिवा ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्तमो ऽस्य् ओषधीनाम्
अनड्वाञ् जगताम् इव
व्याघ्रः श्वपदाम् इव
न घायं पुरुषो रिषत् ।
यस्मै परिब्रवीमि त्वा
सायंप्रातर् अथो दिवा ॥
सर्वाष् टीकाः ...{Loading}...
०५ त्रिः शाम्बुभ्यो गिरेयेभ्यस्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिः शाम्बुभ्यो गिरेयेभ्यस्
त्रिर् आदित्येभ्यस् परि ।
त्रिर् जातो विश्वदेवेभ्यः
स कुष्ठो विश्वभेषजः
साकं सोमेन तिष्ठति ।
तक्मानं सर्वं नाशयन्
सर्वाश् च यातुधान्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रिः शाम्बुभ्यो गिरेयेभ्यस्
त्रिर् आदित्येभ्यस् परि ।
त्रिर् जातो विश्वदेवेभ्यः
स कुष्ठो विश्वभेषजः
साकं सोमेन तिष्ठति ।
तक्मानं सर्वं नाशयन्
सर्वाश् च यातुधान्यः ॥
सर्वाष् टीकाः ...{Loading}...
०६ अश्वत्थो देवसदनस् तृतीयस्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वत्थो देवसदनस्
तृतीयस्याम् इतो दिवि ।
तत्रामृतस्य चक्षणं
ततः कुष्ठो ऽजायत ।
सः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्वत्थो देवसदनस्
तृतीयस्याम् इतो दिवि ।
तत्रामृतस्य चक्षणं
ततः कुष्ठो ऽजायत ।
सः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०७ हिरण्ययी नौर् अचरद्
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्ययी नौर् अचरद्
धिरण्यबन्धना दिवि (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्ययी नौर् अचरद्
धिरण्यबन्धना दिवि (…) ॥
सर्वाष् टीकाः ...{Loading}...
०८ यत्र नावः प्रभ्रंशनम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र नावः प्रभ्रंशनं
यत्र हिमवतः शिरः ।
तत्रामृतस्य चक्षणं
ततः कुष्ठो अजायत ।
स कुष्ठो विश्वभेषजः
साकं सोमेन तिष्ठति ।
तक्मानं सर्वं नाशयन्
सर्वाश् च यातुधान्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत्र नावः प्रभ्रंशनं
यत्र हिमवतः शिरः ।
तत्रामृतस्य चक्षणं
ततः कुष्ठो अजायत ।
स कुष्ठो विश्वभेषजः
साकं सोमेन तिष्ठति ।
तक्मानं सर्वं नाशयन्
सर्वाश् च यातुधान्यः ॥
सर्वाष् टीकाः ...{Loading}...
०९ यं त्वा वेद
विश्वास-प्रस्तुतिः ...{Loading}...
यं त्वा वेद पूर्व ऐक्ष्वाको
यं वा त्वा कुष्ठ काश्यः ।
यं शावसो यं मात्स्यस्
तेनासि विश्वभेषजः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं त्वा वेद पूर्व ऐक्ष्वाको
यं वा त्वा कुष्ठ काश्यः ।
यं शावसो यं मात्स्यस्
तेनासि विश्वभेषजः ॥
सर्वाष् टीकाः ...{Loading}...
१० शीर्षालाकं तृतीयकं सदन्दिर्
विश्वास-प्रस्तुतिः ...{Loading}...
शीर्षालाकं तृतीयकं
सदन्दिर् यश् च हायनः ।
तक्मानं विश्वधावीर्य-
-अधराञ्चं परा सुव ॥
मूलम् ...{Loading}...
मूलम् (GR)
शीर्षालाकं तृतीयकं
सदन्दिर् यश् च हायनः ।
तक्मानं विश्वधावीर्य-
-अधराञ्चं परा सुव ॥